________________
पक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
॥ ६ ॥ "एवं स्थितेऽपि' सर्वसाधारणे सुखे लब्धेऽपि । 'यदि' चेत् । 'अन्यस्वामिना' परनाथेन । 'श्रीः' लक्ष्मीः । 'अधिष्ठिता' आयत्तीकृता। तदा । 'दृग्' नयनम् । 'नीरोगा' रोगरहिता । अस्ति । किन्तु । 'तारा एव' कनीनिका एव । पुनः । 'आवृता' आच्छादिता अस्ति । किं तया दृशा यस्यास्तारैवोपहता स्यात् ? मुधैव सा दृगित्यर्थः ॥ ७ ॥
पुष्पमाला: पराघ्राता, नार्हन्ति मरुतां यथा । मनस्विनां परायत्ता, वित्ता अपि तथा श्रियः ॥ ८ ॥
'पराघ्राताः' 'परैः' अन्यैः 'आघ्राता:' घ्राणविषयीकृताः । 'पुष्पमाला:' कुसुमस्रजः । यथा । 'मरुतां' देवानाम् । 'न अर्हन्ति' न योग्याः भवन्ति । तथा । 'वित्ता अपि' विख्याताः अपि । 'श्रियः' लक्ष्म्यः । चेत् 'परायत्ताः' पराधीनाः सन्ति तर्हि । 'मनस्विनां' स्वाभिमानानां न अर्हन्ति ॥ ८ ॥
नृसिंहा न समीहन्ते, भक्ष्यं कक्षीकृतं परैः । स्वीकुर्वन्ति तु गोष्ठश्वास्तत्कृत्वा विग्रहाग्रहम् ॥ ९ ॥
'परैः' कक्षीकृतं' अन्यैः स्वीकृतम्। भक्ष्यं खाद्यं वस्तु । नृसिंहा' नरोत्तमाः सिंहाश्च । न समीहन्ते' नेच्छन्ति । गोष्ठश्वाः' स्वस्थानस्था: परद्वेषिणो जनाः, गोष्ठे श्वानः इव । 'स्वस्थानस्थ: पद्धेषी' इति हैम्याम् । पक्षे-गोष्ठे-गोस्थाने स्थिताः श्वानः । 'तु' किन्तु । 'तत्' भक्ष्यम् । 'विग्रहाग्रहं' विग्रहस्य युद्धस्य आग्रहम् । कृत्वा' विधाय ।। 'स्वीकुर्वन्ति' अङ्गीकुर्वन्ति ॥ ९॥
हेमाप्येकाहभुक्तं चे-निर्माल्यं परिकल्प्यते । ध्रुवं तदीश-निर्माल्य-मेवामूर्मम सम्पदः ॥ १० ॥
'एकाहभुक्तं' एकदिनप्रयुक्तम् । 'हेमाऽपि' सुवर्णमपि । 'चेत्' यदि । 'निर्माल्यं' भोक्तुमयोग्यम् । 'परिकल्प्यते' गण्यते । 'तत्' तस्मात् । 'ध्रुवं' निश्चितम् । अमूः मम । 'सम्पदः' विभूतयः । 'ईशनिर्माल्यमेव' श्रेणिकनृपनिर्माल्यं महादेवनिर्माल्यं चैव सन्ति ॥ १० ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥१९३॥