________________
चतुर्थः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282882 8282828282828282828282828282
युगलिकादिमानवानां वासात् । उपरितनभागे च देवश्री: तत्र देवानामागमनात् निवासाच्च । एवं शालिरपि माऽमर्त्यश्रीभोक्ता अस्ति इत्यर्थः ॥ १६५ ॥
वयं हयप्रियाः स्थानभ्रष्टा यद्दलनादिकम् । सहामः सर्वशस्येषु, परं शालिन खण्ड्यते ॥ १६६ ॥
वयम् । 'हयप्रियाः' हयाः अश्वा: प्रियाः येषां ते राजानः । धान्यपक्षे यवाः । 'यवो हयप्रियः' इति हैम्याम् । ॐ 'यत्' यस्मात् । 'स्थानभ्रष्टाः' राज्यरक्षार्थं इतस्तत: भ्रमणात् स्थानभ्रष्टाः । 'दलनादिकं' राज्यनाशादिकम् । पक्षे-दलनम्। 'सहामः' तितिक्षामहे । 'परं' परन्तु । 'सर्वशस्येषु' सर्वप्रशस्येषु पुरुषेषु । पक्षे-समस्तधान्येषु । 'शालिः' शालिभद्रः । पक्षे-शालिव्रीहिः । 'न खण्ड्यते' न भ्रश्यते । पक्षे-न खण्ड्यते । सहन्ते हि स्थानभ्रष्टाः राजानः यवादिधान्यानि च दलनापमानादिकम् । किन्तु शालिभद्रः शालिव्रीहिर्वा न खण्ड्यते क्वापि ॥ १६६ ॥
नालीकं शालिरेवायं, शस्यश्रीणां शिरोमणिः । यस्य राजशुकाः पुण्य-कणेभ्यः स्पृहयन्त्यहो ॥ १६७॥
'न अलीकं' न असत्यम् । 'शस्यश्रीणां' प्रशस्यलक्ष्मीणाम् । धान्यपक्षे धान्यलक्ष्मीणाम् । 'शिरोमणिः' मुख्यः । 'अयं शालि: एव' शालिभद्रः एव । पक्षे-शालिव्रीहिः एव । यस्य । 'पुण्यकणेभ्यः' पुण्यांशेभ्यः । पक्षे-पवित्रधान्येभ्यः । 'राजशकाः' राजानः । पक्षे-शुकवराः । अहो आश्चर्ये । 'स्पृहयन्ति' इच्छन्ति ।। १६७ ।।
तस्मादकस्मादस्माकमपि शालिविलोकनात् । जज्ञे कृतार्थता मन्ये, जिनमूर्तेरिवेक्षणात् ॥ १६८ ॥
'तस्मात्' तत्कारणात् । 'अकस्मात्' पूर्वमचिन्तनात् । अस्माकमपि । 'जिनमूर्तेः' ईक्षणात् इव' अर्हत्प्रतिमदर्शनादिव। 'शालिविलोकनात्' शालिभद्रदर्शनात् । 'कृतार्थता' कृतकृत्यता । 'जज्ञे' जाता । इति मन्ये ॥ १६८ ॥
828282828282828282828282828282828482
॥१८७॥