________________
चतुर्थः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
अथैवं विस्मितं भद्रा, कल्पद्रुमफलैः कलैः । आहारैरमृतस्येवा-ध्याहारै देवनिर्मितैः ॥ १६९ ॥ वह्निपाकैधूमपाकैः, सूर्यपाकैर्द्विपाकिमैः । चित्रीयमाणं क्षोणीशं, ग्राम्यमारववत् पुरे ॥ १७० ॥ दिव्यैर्नव्यैरलङ्कारैर्माल्यैर्गोशीर्षचन्दनैः । वासोभिः सपरीवारं, सादरं समतूतुषत् ॥ १७१ ॥ (विशेषकम् )
अथ । एवं' विभूतिदर्शनेन । 'विस्मितं' आश्चर्ययुक्तं नृपम् । भद्रा । कलैः' मधुरैः । 'कल्पद्रुमफलैः' सुरतरुफलैः । 'अमृतस्य इव' सुधाया: इवा 'अध्याहारैः' क्षेपैः । 'आहारैः' देवनिर्मितैः भोजनैः ॥ १६९ ॥ 'वह्निपाकैः' वह्निना पच्यन्ते इति वह्निपाकैः । 'धूमपाकैः' धूमैः पच्यन्ते इति धूमपाकैः । 'सूर्यपाकैः' सूर्येण पच्यन्ते इति सूर्यपाकैः । 'द्विपाकिमैः' वह्नि-सूर्यातप-पाचितैः द्विपाकिमैः । 'पुरे' नगरे । 'ग्राम्यमारववत्' ग्राम्य: ग्रामीण: मारव: मरु देशीयजन: तद्वत् । 'क्षोणीशं' नृपम् । 'चित्रीयमाणं' आश्चर्यमनुभवन्तम् ॥ १७० ।। 'दिव्यैः' परमैः । 'नव्यैः' नवीनैः । 'अलङ्कारः' भूषणैः । 'गोशीर्षचन्दनैः' हरिचन्दनैः । 'वासोभिः' वस्त्रैः । 'सपरीवारं' परिवारसहितं नृपम् । 'सादरं' आदरपूर्वकम् । 'समतूतुषत्' तोषयामास ॥ १७१ ॥
श्रेणिकस्य स्वस्थाने गमनम्तुङ्गरङ्गरचना तरङ्गिणीपूरगौरवतरत्तरान्तरः । प्रांशुमाशु मगधक्षितिपतिः, सौधशैलशिखराग्रमग्रहीत् ॥ १७२ ॥
'तुङ्गरङ्गरचना-तरङ्गिणी-पूरगौरव-तरत्तरान्तरः' तुङ्गो योऽसौ रङ्गः हर्षः तस्य रचना सैव नदी तस्याः पूरः तस्य गौरवंगुरुत्वं तत्र 'तरत्तरं'-अतितरत् अन्तरं हृदयं यस्य सः । 'मगधक्षितिपतिः' मगधसम्राट् श्रेणिकः । 'आशु' शीघ्रम् । 'प्रांशुं'
828282828282828282828282828282828482
॥१८८॥