________________
चतुर्थ:
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
शालेः परिमलैरेवं, राज्ञोऽभूदाशितम्भवः । अलमन्येन केनापीति मन्ये स शिरोऽधुनोत् ॥ १६३ ॥
एवम् । 'शालेः' शालिभद्रस्य । पक्षे-शालिपाकस्य । 'परिमलैः' सुगन्धिपदाथैः मर्दनं विभूतिदर्शनं इत्यादिकैः परिमलरूपैः । शालिपाकपक्षे-सुगन्धैः । 'राज्ञः' श्रेणिकस्य । 'आशितम्भवः' तृप्तिः । 'अभूत्' जाता । 'अन्येन' परेण। 'केनाऽपि' विभूत्यादिना । पक्षे-मिष्टान्नादिकेन । 'अलं' कृतम् । इति कथयितुमिव । 'सः' राजा । 'शिरः' मस्तकम् । 'अधुनोत्' अकम्पयत् । इत्यहं मन्ये । धुनोति एव शिर: तृप्तः जनः अधिकाहार-ग्रहणवेलायाम् । अत्र राज्ञः शिर: कम्पः वस्तुतः आश्चर्येण जातः ॥ १६३ ॥
सुधी वल्लभः शाले-र्भोगसूत्रं महार्थयुक् । वर्णाढ्यमश्रुतं पूर्वं, व्याचिख्यासुरचिन्तयत् ॥ १६४ ॥
'शालेः' शालिभद्रस्य । 'भोगसूत्रं' भोगविलासम् । पण्डितपक्षे-सिद्धान्तम् । 'व्याचिख्यासुः' कथनेच्छु: । पक्षेव्याख्यानं कर्तुकामः । 'सुधीः' निर्मलमतिः । पक्षे-विद्वान् । 'भूवल्लभः' राजा । 'अचिन्तयत् विचारयामास । कथम्भूतं. सूत्रम् ? 'महार्थयुक्' महान् अर्थः-द्रव्यं तेन युक्तम् । पक्षे-महता अर्थेन युक्तम् । 'वर्णाढ्यं' वर्णैः रूपैः वर्णिकाभिः वा आढ्यम् । पक्षे-अक्षराढ्यम् । 'पूर्वं' प्राक् । 'अश्रुतं' अनाकणितम् ॥ १६४ ।।
अस्य पृथ्वीधरेभ्योऽपि, पुण्यं मेरुरिवोच्चकैः । मामय॑श्रियौ यस्यो-पत्यकाऽधित्यकाश्रये ॥ १६५ ॥
'अस्य' शालिभद्रस्य । 'पृथ्वीधरेभ्योऽपि' नृपेभ्योऽपि । मेरुपक्षे-पर्वतेभ्योऽपि । मेरुः इव । 'उच्चकैः पुण्यं' उन्नतं सुकृतमस्ति । 'यस्य' पुण्यमेरोः । 'उपत्यकाऽधित्यकाश्रये' अधोभागे उपरितनभूभागे च । 'अधित्यको भूमि: स्यादधोभूमिरुपत्यका' इति हैम्याम् । 'मामवंश्रियौ' मनुष्यदेवलक्ष्म्यौ स्त: । मेरोरधस्तनभागे मनुष्यश्रीरस्ति, तत्र
satasa8RSR88RSONASRSASASASRSASASNA
॥ १८६॥