________________
चतुर्थः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'सा' दासी । अवदत् । 'देव' हे राजन् ! । 'भुवनाद्भुतं' भुवने जगति अद्भुतं आश्चर्यरूपम् । 'सद्भूतं' सत्यम् । 'श्रूयतां' निशम्यताम् ॥ १५८ ।।
देवा दासा दशास्यस्य, श्रीरामस्यार्णवः स्थलम् । नलस्येव रविः सूदो, याचकः श्रीपतिर्बलेः ॥ १५९ ॥ एवं नृदेवदेवेषु, देवदेवेषु दुर्घटम् । कल्याणमपि निर्माल्य-मेतन्नेतर्ममेशितुः ॥ १६० ॥
'दशास्यस्य' रावणस्य । 'देवाः' सुराः । 'दासाः' सेवकाः । श्रीरामस्य । अर्णवः' समुद्रम् । 'स्थलं' स्थलसमोऽभूत् । नलस्य इव रविः सूर्यः 'सूदः' सूपकारः । 'बलेः' बलिराजस्य । 'श्रीपतिः' विष्णुः । 'याचकः' मार्गणः ॥ १५९ ॥ एवं 'नृदेव-देवेषु' नरपुङ्गवमुख्येषु चक्रिषु । 'देवदेवेषु' इन्द्रेषु अपि । 'दुर्घटं' दुःशकम् । 'नेतः' हे स्वामिन् ! मम ईशितु:स्वामिनः । 'कल्याणमपि' सुवर्णमपि । 'निर्माल्यं' उपभोगाऽयोग्यं व्यर्थं भवति इति श्रेणिकं प्रति दासी-वचनम् ॥ १६० ॥
न माल्यमपि निर्माल्यं, स्वर्गिणां किं पुनर्वसु ? । विधूय सवधूकेन, यदनेन विमुच्यते ॥ १६१ ॥ यदेतत्सवधूकस्य, जनकेनोपनीयते । तत् पनीपत्यते कूपेऽपमानादिव भूषणम् ॥ १६२ ॥
'स्वर्गिणां' देवानाम् । 'माल्यमपि' स्रगपि । 'न निर्माल्यं न उपभोगाऽयोग्यं भवति । किं पुन: वसु-द्रव्यम् ? यद् 'अनेन' शालिभद्रेण । 'सवधूकेन' सभार्येण । 'विधूय' निष्कास्य । 'विमुच्यते' परिहीयते ॥ १६१ ॥ यत् एतत् । 'सवधूकस्य' सपत्नीकस्य शालिभद्रस्य । 'जनकेन' गोभद्र-देवेन । 'उपनीयते' प्रेष्यते । 'तत्' तस्मात् । 'अपमानादिव' मानभङ्गादिव । 'भूषणं' अलङ्कारजातम् । 'कृपे' अवटे । 'पनीपत्यते' भृशं पतति । अहं गोभद्रदेवदत्तोऽस्मि । ममैवंविधः अपमान: ? इति निर्वेदात् अलङ्कारः कूपे पतति इति भावः ॥ १६२ ॥
828282828282828282828282828282828482
॥ १८५ ॥