________________
श्री
शालिभद्र
महाकाव्यम्
FRERER
'विशामीशं' राजानम् । 'आलोक्य' दृष्ट्वा । 'विनिद्रधीः' विनिद्रा अप्रमत्ता धीः मतिः यस्याः सा । दिदेश - आदिशति स्म ॥ १५४ ॥
भद्रा । दासीं
तदाऽऽज्ञया तया तोये, प्रयोगादपकर्षिते । मुद्रारत्नमयत्नेन, भूपः कूपान्तरैक्षत ॥ १५५ ॥ ‘तदाज्ञया' भद्रादेशेन । ‘तया' दास्या । 'प्रयोगात्' यन्त्रप्रयोगात् । 'तोये' कूपस्थे जले । 'अपकर्षिते' अपनीते बहिष्कृते । ‘भूपः' राजा श्रेणिक: । 'कूपान्तः' कूपमध्ये । 'मुद्रारत्नं' अङ्गुलीयम् । 'अयत्नेन' प्रयासं विना । ' ऐक्षत' पश्यति स्म ॥ १५५ ॥
ग्राम्यं पौरेषु सूरेषु, भीरुं धनिषु निर्धनम् । मूर्ख सुधीषु तन्मेने, भूषणेषु गतप्रभम् ॥ १५६ ॥
'पौरेषु' नागरिकेषु । 'ग्राम्यं' ग्रामीणम् । 'सूरेषु भीरुं' वीरेषु कातरम् । 'धनिषु निर्धनं' श्रीमत्सु दरिद्रम् । 'सुधीषु मूर्ख' विद्वत्सु मूर्खम् । तद्वत् । 'भूषणेषु' कूपस्थेषु अलङ्कारेषु । 'तत्' अङ्गुलीयकम् । 'गतप्रभं' कान्तिहीनम् । 'मेने' मन्यते स्म ॥ १५६ ॥
आसीन्महीधरे लीना, या कान्तिजलवाहिनी । सोर्मिका नोर्मिकाष्ठाम- प्याऽऽपालङ्कारसागरे ॥ १५७ ॥ 'महीधरे' राज्ञि । पक्षे पर्वते । 'लीना' स्थिता। या 'कान्तिजलवाहिनी' कान्तिरसमयी नदी । आसीत् । 'सा ऊर्मिका' अङ्गुलीयकम् । ‘अलङ्कारसागरे' भूषणसमुद्रे । 'ऊर्मिकाष्ठामपि' कल्लोलकक्षामपि । 'न आप' न प्राप्ता ॥ १५७ ॥
दासीं प्राह महीपालः, किमयं भूषणोच्चयः । साऽवदद्देव ! सद्भूतं श्रूयतां भुवनाद्भुतम् ॥ १५८ ॥ 'महीपालः पृथ्वीशः श्रेणिकः । दासीं प्राह- पृच्छति । किं कथम् । अयं भूषणोच्चयः अलङ्कार-समूहः ?
R&R
चतुर्थः
प्रक्रमः
।। १८४ ॥