________________
श्री
शालिभद्र
महाकाव्यम्
FRERERE
भृङ्गारैर्यमुना- गङ्गा-रूपैर्द्धिधा त्रिधा जलैः । स्नानपीठे मणिस्वर्ण-मये ते तमसिस्त्रपन् ॥ १५१ ॥
'मणिस्वर्णमये' रत्नकनकमये । 'स्नानपीठे' मज्जनासने । 'भृङ्गारैः ' कलशैः । 'द्विधा' द्विप्रकारेण । 'यमुनागङ्गारूपैः' कालिन्दीजाह्नवीरूपैः । 'त्रिधा' पुष्पोदक- गन्धोदक-शुद्धोदक-भेदैः । जलैः । 'ते' अङ्गमर्दकाः । 'तं' राजानम् । 'असिस्नपन्' स्त्रापयन्ति स्म ॥ १५१ ॥
श्रेणिकस्य मुद्रा कूपे पतिता
तदाऽभिषुण्वतस्तस्य मुद्रा कूपेऽपतद्रयात् । वनिता दुर्विनीतेव, कोपाटोपवशंवदा ।। १५२ ॥
'तदा' तस्मिन्नवसरे। 'कोपाटोपवशंवदा' रोषावेशवशीभूता। 'दुर्विनीता वनिता इव' कुलटा स्त्री इव । 'अभिषुण्वतः ' स्नानं कुर्वतः । ‘तस्य' राज्ञ: । 'मुद्रा' हस्ताङ्गुल्या ऊर्मिका। 'कूपे' अवटे। 'रयात्' वेगात् । 'अपतत्' पतिता ॥ १५२ ॥
गलितेनाङ्गुलीयेन, जाङ्गुलीयपदेन वा । सुवर्णातिशयाढ्येन, नरेन्द्रः प्राप जिह्यताम् ॥ १५३ ॥
'सुवर्णातिशयाढ्येन' कनकाऽऽधिक्याऽऽढ्येन । जाङ्गलीयपक्षे-सुवर्णै: प्रधानाक्षरैः, आढ्येन । 'गलितेन' पतितेन । पक्षे-स्मृतिभ्रष्टेन विस्मृतेन । 'जाङ्गुलीय-पदेन वा' जाङ्गुलीयविद्यापदेन इव । अत्र 'वा' इवार्थे । 'नरेन्द्रः' श्रेणिकनृपः । पक्षे- गारुडिकः । नरेन्द्रशब्दः गारुडिकार्थोऽपि वर्तते । 'जिह्यतां' विषादं प्राप ।। १५३ ॥
तपस्विनमिवालोक्य, मुद्राभ्रंशादनीदृशम् । विशामीशं दिदेशाथ, दासीं भद्रा विनिद्रधीः ॥ १५४ ॥ अथ । 'मुद्राभ्रंशात्' ऊर्मिकापातात् । 'अनीदृशं' अनित्थम्भूतम् अस्वस्थमित्यर्थः । 'तपस्विनमिव' वराकमिव ।
KER
चतुर्थः
प्रक्रमः
।। १८३ ॥