________________
श्री
चतर्थः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
एवमुच्चवचोवीचिपूरैरप्युत्सुकं नृपम् । भद्रा भद्रानदीवाऽथ, वेगाऽऽवेगादचिस्खलत् ॥ १४७ ॥
अथ । 'भद्रानदी इव' भद्रा इति नाम धारिणी नदी इव । 'भद्रा' शालिमाता । 'एवं' उपर्युक्तप्रकारेण । 'उच्चवचोवीचिपूरैः' उच्छ्रितवचनतरङ्गपूवैः । 'उत्सुकमपि' विभूतिदर्शने उत्कण्ठितमपि । 'नृपं' राजानम् । 'वेगावेगात्' वेगस्य हर्ष-वेगस्य आवेगात्-आवेशात् । 'अचिस्खलत्' स्खलयति स्म ॥ १४७ ॥
लक्षपाकैस्ततस्तैलैः, परिणाममनोहरैः । दर्शनानन्दनैः कर्ण-प्रीणनैर्वचनैरिव ॥ १४८ ॥ अङ्गमर्दाः क्षमाभर्तुरङ्गोपाङ्गविदो व्यधुः । संवाहना गणस्येव, गीतार्थास्तां चतुर्विधाम् ॥ १४९ ॥
'ततः' तत्पश्चात् । 'अङ्गोपाङ्गविदः' शरीराङ्गलिप्रमुखानि अङ्गोपाङ्गानि तेषां विदः-विज्ञाः । गीतार्थपक्षे-अङ्गानि आचाराङ्गादीनि, उपाङ्गानि-औपपातिकादीनि तद्विज्ञाः । 'गीतार्थाः इव' जैनतत्त्वभावित-हृदया: उत्सर्गापवादविदः गीतार्थाः झ्व । गणस्य 'गच्छस्य' । 'चतुर्विधां' अस्थिमांसत्वग्रोमभेदैश्चतुर्धा । पक्षे-अशनपानवस्त्रपात्र-रूपाम् । 'अङ्गमर्दाः' देहमर्दनकरा: । 'क्षमाभर्तुः' राज्ञः । 'संवाहनां' अङ्गमर्दनाम् । पक्षे-निर्वहणाम् । 'लक्षपाकैः तैलैः' लक्षौषधपाकेन निर्वृत्तैः तैलैः । 'व्यधुः' कुर्वन्ति स्म । कथम्भूतैः लक्षपाकतैलैः ? 'कर्णप्रीणनवचनैरिव' श्रुतिरम्यवचोभिरिख । 'दर्शनानन्दैः' दर्शनं आनन्दरूपं येषां तैः । 'परिणाममनोहरैः' फलमधुरैः ॥ १४८ ॥ १४९ ॥
स्नानीयगन्धचूर्णेना-पनिन्यस्तैलसम्भ्रमम् । परमार्थोपदेशेन, ते पूर्वमिव संस्तवम् ॥ १५० ॥
'परमार्थोपदेशेन' तत्त्वोपदेशेन । 'पूर्वं संस्तवमिव' पूर्व-कालीनं परिचयमिव । 'ते' अङ्गमर्दकाः । पक्षेगीतार्थमुनयः । 'स्नानीय-गन्धचूर्णेन' स्नानार्हगन्धवासेन । “तैलसम्भ्रमं' तैलसंसर्गम् । 'अपनिन्युः' मर्माजुः ।। १५० ॥
satasa8RSR88RSONASRSASASASRSASASNA
॥१८२॥