________________
चतर्थ:
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
स्वकरात्तदयं देव ! सदयं राजकुञ्जर । मुच्यतां कमलाकेलि-पात्रं कमलकोमलः ॥ १४४ ॥
'तत्' तस्मात् । 'राजकुञ्जर' हे नृपश्रेष्ठ ! । पक्षे-गजराज ! । 'देव' हे पूज्य ! । 'कमलाकेलिपात्रं' लक्ष्मीक्रीडाभाजनम् । कमलकोमलः' कमलं पद्मं तद्वत् कोमलः सुकुमारः । 'अयं' शालिः । 'स्व-करात्' निजहस्तात् । गजपक्षे-स्वशुण्डादण्डात् । 'सदयं' सकरुणम् । 'मुच्यतां' त्यज्यताम् ॥ १४४ ।।
तेन पुण्येन मुक्तोऽगात् स शिवं सप्तमं क्षणम् । कलत्रैः ससुखैः सिद्ध-गुणैात्रिंशता सह ॥ १४५ ॥
'ससुखैः' सुखसहितैः । ससखैरिति वा पाठ: । 'द्वात्रिंशता सिद्धगुणैः' सिद्धा गुणा येषां तैः कलत्रैः । मोक्षपक्षे-सिद्धानां मुक्तात्मनां गुणैः । 'इगतीसाए सिद्धाइगुणेहिं' इति श्रमणसूत्रपाठात् ३१ सिद्धगुणा: ते च अत्र 'ससुखैः'
इति विशेषणात् ससुखा: मन्तव्याः । अत: ३१ सिद्धगुणाः + १ सुखम् = ३२ जाताः । 'कलत्रेण' प्रियाभिः । | 'सह सार्धम् । 'तेन पुण्येन' पवित्रेण श्रेणिकेन । पक्षे-पुण्यकर्मणा । 'मुक्तः' त्यक्तः । 'सः' शालिभद्रः । पक्षे
कर्ममुक्त: जीव: । 'क्षणं' क्षणात् । पक्षे-समयान्तरमस्पृश्य । 'सप्तमं' सप्तमभूभागम् । पक्षे-सप्तमं राज्यम् । 'शिवं' कल्याणरूपम्। पक्षे-मोक्षम् । 'अगात्' जगाम ॥ १४५ ॥
सूनुर्धर्म इव स्वामिन् !, स्वागमेन प्रतिष्ठितः । स्वानुभूतेविभूति मे, विद्यामिव पवित्रय ॥ १४६ ॥
'स्वामिन्' हे राजन् ! । 'स्वागमेन' निजागमनेन । धर्मपक्षे-सुसिद्धान्तेन । 'धर्मः इव' अर्हद्धर्मः इव । 'सूनुः' मम पुत्रः । 'प्रतिष्ठितः' प्रतिष्ठावान् कृतः । पक्षे-स्थापितः । अथ । 'स्वानुभूतेः' दर्शनपूर्वकात् स्वानुभवात् । पक्षेआत्मानुभवात् । 'विद्यामिव' ज्ञानमिव । 'मे' मम । 'विभूति' सम्पत्तिम् । 'पवित्रय' पवित्रां कुरु ॥ १४६ ॥
satasa8RSR88RSONASRSASASASRSASASNA
॥१८१॥