________________
चतर्थ:
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
परमानन्दमानन्द, तत्सम्बन्धान्महीधरः । व्यलीयत च तत्तापाद, गलदश्रुजलः परः ॥ १४० ॥
'तत्सम्बन्धात्' शालिभद्रसङ्गात् मेघसङ्गाच्च । 'महीधरः' 'राजा । पक्षे-पर्वतः । 'परमानन्दं परमप्रमोदम् । 'आनन्द' प्राप, 'अन्द्' धातोः परोक्षरूपमिदम् । 'पर:' शालिभद्रः घनश्च । 'तत्तापात्' श्रेणिकाङ्गतापात् । पर्वतपक्षे-पर्वततापात् । 'गलदश्रुजलपर:' स्रवद्बाष्पसलिलः । पक्षे-स्रवज्जलः । 'व्यलीयत' द्रुतवान् । पक्षे-ववर्ष ॥ १४० ॥
भद्राऽऽह देव ! दिव्यस्रग्-वस्त्राहारविलेपनैः । सुहितोऽयं नरश्वास-व्यासै र्दोदूयतेतराम् ॥ १४१ ॥ कुराज्यं जननिश्वासैः, परश्वासैर्यथा सुखम् । जीवितं श्वसनीश्वासै-रूज़श्वासैर्यथा वपुः ॥ १४२ ॥
यथा । 'जननिश्वासैः' प्रजान्त:करणपीडारूपैः । 'कुराज्यं' कुत्सितनृपराज्यम् । यथा । 'परश्वासैः' परनि:श्वासैः । 'सुखं' लोकानां धनादिसुखम् । 'श्वसनीश्वासैः' फूत्कारकारिसर्पविशेषश्वासैः । यथा । 'जीवितं' जीवनम् । 'ऊर्ध्वश्वासैः' अन्तसमये जायमानैः । यथा । 'वपुः' शरीरम् ॥ १४२ ॥ तथा । 'देव' हे राजन् ! । 'दिव्यत्रग्वस्त्राहारविलेपनैः' देवदत्तमालावसनाशनाङ्गरागैः । 'सुहितः' तृप्तः । 'अयं' शालिभद्रः । 'नरश्वासव्यासैः' मानवश्वासविस्तरैः । न्यासैरित्यपि पाठः । 'दोदूयतेतरां' अत्यन्तं दुःखितो भवति । इति भद्रा आह-वदति ॥ १४१ ॥ १४२ ॥
पिताऽस्य सवधूकस्य, देवभूयमितो यतः । दिव्यभोगश्रियं दत्ते, कल्पद्रुरिव युग्मिनाम् ॥ १४३ ॥
'यतः' यस्मात् । 'देवभूयं' देवत्वम् । 'इत:' गतः । 'पिता' गोभद्रदेवः । 'अस्य सवधूकस्य' सभार्यस्य शालिभद्रस्य । 'दिव्यभोगश्रियं' दिव्यविलासलक्ष्मीम् । 'दत्ते' यच्छति । 'युग्मिनां' युगलिकानाम् । 'कल्पद्रुः' कल्पवृक्षः । 'इव' यथा। दिव्यभोगश्रियं दत्ते ॥ १४३ ॥
satasa8RSR88RSONASRSASASASRSASASNA
॥ १८०॥