________________
चतुर्थ:
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'परितः' अभितः । 'विद्याधरीभिरिव' विद्याधरपत्नीभिरिख । 'कान्ताभिः' प्रेयसीभिः । 'राजितं' शोभितं परिवृतमित्यर्थः । 'स्मरमहादुर्गशालं' स्मरस्य कामस्य महादुर्गशालं महादुर्गवप्रम् । 'शालिं' शालिभद्रम् । 'राजा' श्रेणिकः । 'अलोकयत्' दृष्टवान् ॥ १३६ ॥
रूपश्रीपर्वते तत्र, पुण्यज्योतिर्विलोकनात् । राज्ञा कार्पटिकेनेव, मेने निर्मलताऽऽत्मनः ॥ १३७ ॥
'रूपश्रीपर्वते' रूपलक्ष्मीणां पर्वते समूहे । कार्पटिकपक्षे-श्रीपर्वते । 'तत्र' शालिभद्रे । 'पुण्यज्योतिर्विलोकनात्' पवित्रकान्तिदर्शनात् । पक्षे-ज्योतिर्दर्शनात् । 'कार्पटिकेनेव' तथाविधपरिव्राजकेन इव । 'राज्ञा' श्रेणिकेन । 'आत्मनः' स्वस्य । 'निर्मलता' शुद्धि: । 'मेने' मतवान् । श्रीपर्वते विशाखान्तदिनत्रयेषु ज्योति: स्वयं यः कार्पटिक: पश्यति स हत्यादिदोषरहितः स्यादिति प्रसिद्धिः ॥ १३७ ॥
अथ सान्तः पुरः शालिभद्रः शालिभरादिव । श्रीश्रेणिकक्षितीशाय, विनीतो विनति व्यधात् ॥ १३८ ॥
अथ । 'शालिभरादिव' शालिपाकभरादिव । 'विनीतः' विनम्रः । 'सान्तःपुरः' अन्त:पुर-सहित: शालिभद्रः । 'श्रीश्रेणिकक्षितीशाय' 'श्रीश्रेणिकपृथ्वीपालाय । 'विनति' विशेषेण नर्ति प्रणामम् । 'व्यधात्' अकरोत् ॥ १३८ ॥
तं घनं नेत्रविश्राम-स्थानमद्भुतमुन्नतम् । आलिङ्ग्य भूभृदुत्सङ्ग-रङ्गे रङ्गान्यवीविशत् ॥ १३९ ॥
'अद्भुतं' आश्चर्यकारकम् । 'उन्नतं' उच्चम् । 'नेत्रविश्रामस्थानं' नयनविश्रान्तिस्थानम् । 'तं' शालिम् । 'घन' अत्यर्थम् । पक्षे-मेघम् । 'आलिङ्ग्य' 'भूभृत्' राजा । धनपक्षे-पर्वतः । 'रङ्गात्' आनन्दात् । 'उत्सङ्गरङ्गे' अङ्कभागे । पक्षे-उपरिभागे । 'न्यवीविशत्' अस्थापयत् ॥ १३९ ॥
satasa8RSR88RSONASRSASASASRSASASNA
॥ १७९ ॥