________________
श्री
शालिभद्र
महाकाव्यम्
'आसाद्य' प्राप्य । 'मत्तः' दीप्तः । अभूत् । 'अस्य नरसिंहस्य' नरशार्दूलस्य शालिभद्रस्य । संवेगः पुनः । सिंहवत् । 'भूधरं' नृपम् । सिंहपक्षे-पर्वतम् । प्राप्य मत्तोऽभूत् । यथा सिंहः स्वप्रतिध्वनिं श्रुत्वा शौर्येण मत्तो भवति तथा शालिरपि भूधरं श्रेणिकं प्राप्य दीप्तवैराग्योऽभूत् ॥ १३३ ॥
उपरोधारत्परं मातुः, स मेने राजदर्शनम् । शुद्धसम्यक्त्वधारीव, मिथ्यादर्शनमप्रियम् ॥ १३४ ॥
'परं परन्तु । 'शुद्धसम्यक्त्वधारी' निर्मलसम्यग्दर्शनभूत् । 'मिथ्यादर्शनमिव' मिथ्यात्विनमिव। 'राजदर्शनं' श्रेणिकविलोकनम् । 'सः' शालि: । 'मातुः ' भद्रामातुः । 'उपरोधात्' आग्रहात् । 'मेने' मनुते स्म । न स्वेच्छातः । यथा शद्धसम्यक्त्वी मात्रादिगुर्वादीनामभियोगादेव मिथ्यात्विनं विलोकते तथा शालिरपि मातुराग्रहादेव राजानं विलोकते इत्यर्थः ॥ १३४ ॥
शालिभद्र श्रेणिकयोः मेलनम्
सप्तमादथ भूभागाद्-गीतध्वनिरिव स्वरात् । जगदानन्दकन्दस्तं, तूर्णं तूर्यमुपेयिवान् ॥ १३५ ॥
'गीतध्वनिः इव' सङ्गीतनादः इव । 'जगदानन्दकन्दः' विश्वप्रमोदमूलं शालिभद्रः । 'सप्तमात् स्वरादिव' षड्जादिसप्तस्वरमध्यात् निषधनामकात् सप्तमस्वरादिव सप्तमात् भूभागात् । 'तूर्णं' क्षिप्रम् । 'तं' श्रेणिकाश्रितम् । 'तूर्यं' चतुर्थं भूभागम् । चतुर्थार्थे तुर्यशब्दे 'तूर्यशब्दोऽपि शब्दकोषे दृश्यते । गीतध्वनिपक्षे मध्यमनामकं चतुर्थस्वरम् । स्वरनामानि चेमानि-‘षड्ज-ऋषभ-गान्धाराः मध्यमः पञ्चमस्तथा । धैवतो निषधः सप्त तन्त्रीकण्ठोद्भवाः स्वराः ॥ १ ॥ 'उपेयिवान्' उपगतः ॥ १३५ ॥
कान्ताभिः परितो विद्या-धरीभिरिव राजितम् । राजा स्मर-महादुर्ग - शालं शालिमलोकयत् ॥ १३६ ॥
चतुर्थः
प्रक्रम:
।। १७८ ।।