________________
चतुर्थ:
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
कलिङ्गेशस्य वैराग्यं, किं पनवृषभाश्रितम् । राजकुञ्जरमारूढं, शाले: सन्नद्धयोधवत् ॥ १३० ॥
'कलिङ्गेशस्य' कलिङ्गदेशाधिपस्य करगण्डुनृपस्य । 'वैराग्यं' विरक्तिः किं पनवृषभाश्रितं-शक्तिहीन बलीवारूढम् ? वृद्धवृषभं दृष्ट्वा खलु सविरक्तः । यदुक्तम्-श्वेतं सुजातं सुविभक्त श्रृङ्ग, गोष्ठाङ्गणे वीक्ष्य वृषं जरार्तम् । ऋद्धिं त्वऋद्धि प्रसमीक्ष्य बोधात्, कलिङ्गराजर्षिरवाप धर्मम् । 'शालेः' शालिभद्रस्य । 'पुनः' परन्तु । 'संनद्धयोधवत्' कवचितवीरवत् । 'राजकुञ्जरं' श्रेणिकराजवरम् । वृषभप्रतिपक्षे गजवरम् । 'आरूढं' अधिष्ठितम् ॥ १३० ॥
इन्द्रं पतितमालोक्य, पाञ्चालेशो व्यरज्यत । अयं तु नृपमुन्निद्र-प्रमोदामोदमुच्छ्रितम् ॥ १३१ ॥
'पाञ्चालेशः' पाञ्चालदेशाधिपतिः द्विमुखो राजा । पतितं' स्रस्तम् । इन्द्रं' इन्द्रध्वजम् । 'आलोक्य' दृष्टवा । 'व्यरज्यत' विरक्तो जातः । 'तु' किन्तु । 'अयं' शालिभद्रः । 'उन्निद्रप्रमोदामोदं' उन्निद्रः प्रफुल्ल: प्रमोदः आनन्दः तस्य आमोदः सुगन्धः यस्मिन् तम् । 'उच्छ्रितं' उच्चम् । उत्थितमित्यपि पाठः । 'नृपं' श्रेणिकभूपम् । आलोक्य ॥ १३१ ॥
नमेलयमार्गेण, वैराग्यं सङ्गतं मितम् । शालिभद्रस्य तु सदा, राजमार्गेण सङ्गतम् ॥ १३२ ॥
'नमः' नमिराजर्षे: । 'वलयमार्गेण' राजीनां कङ्कण-ध्वनिद्वारा । मार्गपक्षे-वलयवत् वक्रमार्गेण । 'मितं' ध्वनिजातत्वात् परिमितम् । 'वैराग्य' विरक्तिः । 'संङ्गतम्' सम्यक् प्राप्तम् । शालिभद्रस्य तु सदा-नित्यम् । 'राजमार्गेण' श्रेणिकनृपद्वारा। वलयमार्गप्रतिपक्षे राजवर्त्मना । 'सङ्गतं' प्राप्तम् ॥ १३२ ।।
नग्गतेश्चुतमासाद्य, संवेगः कोकिलः किल । मत्तोऽभूद् भूधरं प्राप्य, नृसिंहस्यास्य सिंहवत् ॥ १३३ ॥ 'नग्गतेः' नग्गतिनृपस्य । 'संवेगः' वैराग्यम् । 'कोकिलः' कोकिलतुल्यः । किलः निश्चये । 'चूतं' आम्रतरुम् ।
satasa8RSR88RSONASRSASASASRSASASNA
॥ १७७॥