________________
चतुर्थः
प्रक्रमः
शालिभद्र महाकाव्यम्
SASApsa 8282828282828282828282828282
स्थितिः अवस्थितिः यस्याः ताम् । 'वारवेश्याङ्गनादेश्यां' वाराङ्गना वेश्याङ्गना तया समानाम् । 'असती' कुलटाम् । 'श्रियं' लक्ष्मीम्। धिगस्तु ॥ १२५ ॥
परकाव्यैः कवित्वं यद्, गर्वो याचितभूषणैः । या च याचनया तृप्तिस्तदेतन्मूर्खलक्षणम् ॥ १२६ ॥
यत् परकाव्यैः-अन्यरचितकविताभिः । 'कवित्वं' कवित्वाभिमानः । 'याचितभूषणैः' परेभ्यः मार्गितमण्डनैः । 'गर्वः' मदः । या च पुनः । याचनया याञ्चया 'तृप्तिः' तर्पणम् । तदेतत् । 'मूर्खलक्षणं' मूढचिह्नम् ॥ १२६ ॥
सति त्रिभुवनीनाथे, श्रीवीरे स्वपदप्रदे । चतुरङ्गनृपेणेव, किमनेन शिखण्डिना ॥ १२७ ॥
'त्रिभुवनीनाथे' त्रिलोकस्वामिनि । 'स्वपदप्रदे' निजप्रभुत्वपददायिनि । 'श्रीवीरे' श्रीवर्धमानस्वामिनि । 'सति' विद्यमाने। 'चतुरङ्गनृपेण इव' द्यूतभूपेन इव । 'शिखण्डिना' निष्फलेन । 'अनेन' श्रेणिकेन । किम् ? यथा द्यूतक्रीडायां कल्पितो राजा भवति । तथैवायं श्रेणिकोऽपि कल्पित एव राजेति शालि-विचारणा ॥ १२७ ।।
पुण्याधिक्येन चेन्नाथः, पुण्ये साध्ये स्वयं पुनः । अन्योऽपि हि मम स्वामी, जीवन्निति सहेत कः? ॥१२८ ॥
'चेत्' यदि । 'पुण्याधिक्येन' पुण्यस्य अधिकतया। 'नाथः' कश्चित् स्वामी । तर्हि । स्वयं' आत्मना । 'पुण्ये' सुकृते । 'साध्ये' करणीये । अन्योऽपि हि मम स्वामी नाथः इति । 'जीवन' प्राणान् धारयन् । 'कः' जनः । 'सहेत' क्षमेत ? ॥ १२८ ॥
भोज्यैरिव पराधीनस्ताम्बूलैरपरार्पितैः । पुष्पैर्वा देवनिर्माल्यैरेभिर्भोगैरलं मम ॥ १२९ ॥
'पराधीनः' अस्वाधीनैः । 'भौज्यैः' भोजनैः वा । अपरार्पितैः अन्यदत्तैः । 'ताम्बूलैः' मुखवासैः । देवनिर्माल्यैः इव देवेभ्यः देवमूर्तिभ्यः अपनीतैः निर्माल्यैः इव । वा विकल्पे । एभिः भोगैः-संसारसुखैः । मम 'अलं' पर्याप्तम् ।। १२९ ॥
82828282828282828282828282828282828
॥१७६ ॥