________________
श्री
शालिभद्र महाकाव्यम्
FRERERE
ग्रहेषु द्वादशात्मायं, सहस्त्रकरशोभया । शेषराजश्च सर्वेषु, सहस्रफणसङ्ख्यया ॥ १२२ ॥
सहस्त्राक्षतया स्वर्गि-वर्गे च किल वासवः । राजायतां नितान्तेन विशेषावयवाधिकः ॥ १२३ ॥ 'ग्रहेषु' चन्द्रादिग्रहेषु । 'सहस्रकरशोभया' सहस्रकिरणश्रिया । अयं द्वादशात्मा सूर्य: । 'द्वादशात्मानो रूपाणि अस्य द्वादशात्मा । ‘द्वादश ह्यादित्या इति रूढिः' इति हैमीटीकायाम् । ग्रहेषु सूर्यस्य गणना लौकिकापेक्षया मन्तव्या । विशेषावयवाधिकः राजायताम् । 'सर्पेषु' नागलोकषु। 'सहस्रफणसङ्ख्यया' फणासहस्रेण । 'शेषराज : ' वासुकिसर्पराज: । राजायताम् ॥ १२२ ॥ 'स्वर्गिवर्गे' देववृन्दे । चः समुच्चये । 'सहस्त्राक्षतया' अक्षिसहस्रेण । किलः निश्चये । 'वासव:' इन्द्रः । 'विशेषावयवाधिकः ' अन्येभ्यः विशेषावयवैः अधिक: उत्कृष्टः । 'नितान्तेन' स्पष्टतया । 'राजायतां राजा भवतु । १२३ ॥
संसारसरसीवारिबुद्बुदाकारधारिणः । बुधैरस्य कथङ्कारं, पार्थिवत्वं समर्थ्यते ? ॥ १२४ ॥
किन्तु । 'संसारसरसीवारिबुद्बुदाकारधारिणः ' संसारसरसीवारिणि भवजलाशयस्य वारिणि जले बुद्बुदाकारधारिणः बुद्बुदवत् चञ्चलजीवितस्य । 'अस्य' श्रेणिकस्य । 'पार्थिवत्वं' राजत्वम् । पक्षे - पृथ्वीत्वम् । 'बुधैः' विद्वद्भिः । कथं समर्थ्यते ? कथ्यते ? अयं भावः - पृथ्वीजन्याः दृषदः कियत्कालस्थायिनः किन्तु बुद्बुदास्तु जन्मानन्तरमेव विनाशिन:, तथा देवादिकाः जगत्यां कियत्कालस्थायिनः तेषां प्रधानता भवतु, किन्तु अल्पायुषां मानवानां कथं प्रधानत्वम् ? इति शालिचिन्तनम् ॥ १२४ ॥
परायत्तपरीभोगां, चञ्चलां चञ्चलस्थितिम् । वारवेश्याङ्गनादेश्यां, धिगिमामसतीं श्रियम् ॥ १२५ ॥ 'परायत्तपरीभोगां' परायत्तः पराधीनः परीभोगः यस्याः ताम् । चञ्चलां' चपलाम् । चञ्चलस्थिति' चञ्चला
TRERERY
GREDER
चतुर्थः
प्रक्रमः
।। १७५ ।।