________________
चतर्थः
प्रक्रमः
शालिभद्र महाकाव्यम्
SASASASA 8282828282828282828282828282
तया। 'दिग्गजः' दिङ्नागः ॥ ११८ ॥ 'तया' भद्रोक्तया । 'स्वामिवार्तया' श्रेणिक: स्वामी अस्ति इति वार्तया । 'जन्मनः' आरभ्य इति शेष: । 'पूर्व' प्रथमम् । 'अस्पृष्टः' अनाश्लिष्टः । 'सर्वतः' अभितः । 'सुकुमारश्री:' सुकोमलदेहशोभः । 'असौ' शालिभद्रः । 'यतिधर्मः इव' साधुधर्मः इव । 'अव्यथि' व्यथां प्राप्तः । तथा साधुधर्मः (साधूनां धर्मः यस्मिन् सः साधुः) स्वामिवार्तया 'हे साधो ? अहं तव स्वामी' इति वार्तया व्यथते तथा शालिभद्रः अव्यथीत्यर्थः ॥ ११९ ॥
श्रुतिः स्वामीति सन्ताप-माततानैक पद्यपि । चित्रं शतपदीवास्य, कर्णजाहाऽवगाहिनी ॥ १२० ॥
'कर्णजाहाऽवगाहिनी' कर्णमूलावगाहिनी । 'शतपदी इव' पदानां शब्दात्मकपदानां शतमस्या: शतपदी तद्वत् । विरोधपरिहारे-कर्णजलौका: इव । 'अस्य' शालिभद्रस्य । 'स्वामी' इति । 'एकपदी अपि' एकं 'स्वामी' इति पदं यस्याः साऽपि । 'श्रुतिः' श्रवणम् । 'सन्तापं' चिन्तातापम् । 'आततान' चकार । इति चित्रं-आश्चर्यम् । अयं भाव:- | शतपदी (कर्णजलौकाः, अपमानकारकशब्दात्मकपदानां शतं वा) कर्णं गच्छती सती व्यथां उत्पादयति, किन्तु शालिभद्रकर्णे एकपदी (स्वामीति श्रुतिः) अपि व्यथां उदपादयदिति अत्राश्चर्यम् ॥ १२० ॥
दध्यौ धीरः पराक्रान्तो, भव एव पराभवः । यन्ममापि समानांह्रिपाणिः प्राणी परः प्रभुः ॥ १२१ ॥
'पराक्रान्तः' 'परेण' राज्ञा 'आक्रान्तः' अधरीकृत: । 'धीरः' धैर्यवान् शालिः । 'दध्यौ' चिन्तयामास । 'भवः' संसारः । एवः अवधारणे । 'पराभवः' पराजयस्थानम् । 'यत्' यस्मात् । 'मम समानांहिपाणिः' मम समानौ अंहिपाणी पादहस्तौ यस्य सः । 'परः' अन्यः । प्राणी अपि । 'प्रभः' स्वामी भवति ॥ १२१ ।।
satasa8RSR88RSONASRSASASASRSASASNA
॥ १७४॥