________________
श्री
शालिभद्र महाकाव्यम्
Terr
"कृत्वा महर्घं' यदिवाऽमहर्षं क्रयाणकं श्रेणिकनामधेयम् । यथायथं मातरिदं गृहाण, प्रमाणमम्बैव किमत्र पृच्छा ? ।। ११५ ॥ माता रोमाञ्चिता दध्यौ, स्त्रीषु धन्याहमेकिका । यस्या एवंविधः पश्य, लीलागर्भेश्वरः सुतः ॥ ११६ ॥
'रोमाञ्चिता' पुलकिता । 'माता' भद्रा । 'दध्यौ' चिन्तयति स्म । 'स्त्रीषु' महिलासु । अहं एकिका - एका । 'धन्या' प्रशस्या अस्मि । यस्याः एवंविधः श्रेणिकमपि क्रयाणकं मन्यते एवंरूप: । 'लीलागर्भेश्वरः' लीलया गर्भाद् एव ईश्वरः श्रीमान् । 'सुतः तनयोऽस्ति । 'पश्य' विलोकय रे जीव ! इति स्वं प्रति सम्बोधनम् ॥ ११६ ॥
चिन्तयित्वेति साऽवादी - दनादीनवमात्मजम् । भूचक्रेऽयं ननु स्वामी, न क्रेयं वस्तु किञ्चन ॥ ११७ ॥ इति चिन्तयित्वा - विचार्य 'अनादीनवं' निर्दोषम् । 'दोषे त्वादीनवाश्रवौ' इति हैम्याम् । 'आत्मजं' पुत्रम् । 'सा' भद्रा 'अवादीत्' अवोचत् । 'अयं' श्रेणिकः । ननुः विरोधवचनार्थः । 'भूचक्रे' पृथ्वीमण्डले । 'स्वामी' नाथ: न पुनः किञ्चन । 'क्रेयं' - ग्राह्यम् । 'वस्तु' - अर्थजातम् ॥ ११७ ॥
स्वामीति शब्देन शालिभद्रस्य व्यथा
ज्योत्स्नयेव दिनेशस्य, करस्थसरसीरुहम् । वृष्ट्येव ब्रह्मणो हंसः, श्रृणिसूच्येव दिग्गजः ॥ ११८ ॥ जन्मनः पूर्वमस्पृष्टः, तयाऽसौ स्वामिवार्तया । सर्वतः सुकुमारश्रीर्यतिधर्म इवाव्यथि ।। ११९ ॥
'दिनेशस्य' सूर्यस्य । 'ज्योत्स्नया इव' प्रकाशेन इव । 'करस्थसरसीरुहं' हस्तस्थितकमलं पीड्यते । 'वृष्ट्या इव' मेघवर्षणेन इव । 'ब्रह्मण:' विधे: । 'हंस' वाहनरूपः मराल । 'श्रृणिसूच्या इव' श्रृणि:- अङ्कुशः स एव सूची
328
चतुर्थः
प्रक्रम:
॥ १७३ ॥