________________
चतुर्थः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
स्तम्बाः ('ज्वारा' इति भाषायाम्) यत्र तस्मिन् । 'रत्नसिंहासने' रत्ननिर्मिते सिंहासने । 'राजा' श्रेणिकः । 'समभाजयत्' शालिमालिङ्गनादिनाऽऽनन्दनार्थं उपविष्टः ॥ १११ ॥ ११२ ॥
चित्राऽभिसङ्गता सद्यो, राजयोगचिकीरथ । सोमस्य सविधे सूनोभद्रा तिथिरिवाययौ ॥ ११३ ॥
अथ 'चित्राऽभिसङ्गता' आश्चर्यान्विता । भद्रातिथिपक्षे-चित्रानक्षत्रयुक्ता । 'राजयोगचिकी:' श्रेणिकराजसंयोगेच्छुका । पक्षे-राजयोगकरणेच्छुका । 'भद्रा तिथि: इव' ज्योति:शास्त्रप्रसिद्धा भद्रातिथि: तद्वत् । 'भद्रा' शालिमाता । 'सोमस्य' सूनोः' चन्द्रतुल्यस्य सौम्यस्य वा पुत्रस्य । पक्षे-चन्द्रपुत्रस्य बुधस्य । 'सविधे' समीपे । 'सद्यः' सपदि । 'आययौ' आगता । चित्रानक्षत्र-भद्रातिथि-मीलने किल राजयोगः भवतीति ज्योतिर्विदः ॥ ११३ ॥
तं प्राह सद्गुणश्रेणे ! श्रृणु श्रेणिकमागतम् । विचक्षण ! क्षणादेत्य, दृशा सम्भावय स्वयम् ॥ ११४ ।।
'तं' शालिभद्रम् । 'प्राह' भद्रा वदति । 'सद्गणश्रेणे' सद्गुणानां श्रेणिः आवलिः यस्मिन् सः तत्ससम्बोधने। 'श्रृणु' आकर्णय । 'विचक्षण' हे विज्ञ ! | 'स्वयं' आत्मना । 'क्षणात्' मनाग् । 'एत्य' आगत्य । आगतं श्रेणिकम् । 'दृशा सम्भावय' विलोकय ।। ११४ ॥
स जगादाऽथ सोद्वेगं, वेगादेतत् क्रयाणकम् । परीक्ष्य तोलयित्वा च, युक्तमूल्येन गृह्यताम् ॥ ११५ ।।
अथ । 'सः' शालिभद्रः । 'सोद्वेगं' उद्धेगपूर्वकम् । 'वेगात्' रभसा । 'जगाद' उवाच । 'एतत्' श्रेणिकाख्यम्। 'क्रयाणकम्' पण्यम् । 'परीक्ष्य' परीक्षां विधाय । 'तोलयित्वा च' तुलायां तोलयित्वा च । 'युक्तमूल्येन' उचितवस्नेन । 'गृह्यतां' आदीयताम् । किमत्र मां पृच्छसि ? यदुक्तम्
satasa8RSR88RSONASRSASASASRSASASNA
॥ १७२॥