________________
चतुर्थः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
ऋद्धिमान् शालिभद्रः वसति । 'मदं' गर्व-गौरवम्, मद्राज्ये इत्थम्भूता सम्पत्ति:? 'निर्वेद' मत्पावें नैवंविधं किमपि इत्येवंरूपं निर्वेदम् । 'विन्दन्' प्राप्नुवन् । 'सः नृपतिः' श्रेणिकनृपः । 'भावसकर' विचारमिश्रताम् । 'आप' प्राप्तः ॥ १०८ ॥
अतीत्य भूमिं त्रितयीं, पुरुषार्थत्रयीमिव । भुवं चतुर्थी मोक्षार्थप्रवृत्तिमिव संश्रितः ॥ १०९ ॥ मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानां समुच्चयम् । चतुष्कावसरं राजा, योगीवाङ्गीचकार सः ॥ ११० ॥
'पुरुषार्थत्रयीमिव' धर्मार्थकामरूपामिव । 'त्रितयी भूमि' भूमित्रयम् । 'अतीत्य' उल्लङ्घ्य । 'मोक्षार्थप्रवृत्तिमिव' मोक्षपुरुषार्थप्रवर्तनमिव । 'चतुर्थी भुवं' तुर्यां भूमिम् । 'संश्रितः' प्राप्त: ॥ १०९ ॥ सः राजा योगी इव । 'मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानां' चतुर्णां भावानाम् । 'समुच्चयं' समूहरूपम् । 'चतुष्कावसरं' यस्योपरि सिंहासनं स्थाप्यते तत् (भाषायां- 'चौकी') 'अङ्गीचकार' स्वीकृतवान् ॥ ११० ॥
सौवर्णपूर्णकलशे, मणिमणिकमण्डिते । नानारत्नलसत्पात्रे, महानीलमयूरके ॥ १११ ॥ तत्र मारकताऽमत्रस्फारोदारयवारके । रत्नसिंहासने राजा, सभायां समभाजयत् ॥ ११२ ॥
'मणिमणिकमण्डिते' रत्नमाणिक्यभूषिते । 'सौवर्णपूर्णकलशे' सौवर्णाः कनकमयाः पूर्णकलशा: पूर्णकुम्भाः यत्र | तस्मिन् । 'नानारत्नलसत्पात्रे' नानारत्नैः विविधरत्नैः लसन्ति शोभायमानानि पात्राणि यत्र तस्मिन् । 'महानीलमयूरके' महानीलनिर्मितौ इन्द्रनीलनिर्मितौ सिंहासनस्य द्विपार्वे मयूरौ कलापिनौ यस्मिन् ॥ १११ ॥ तत्र सभायां-पर्षदि । 'मारकताऽमत्रस्फारोदारयवारके' मारकताऽमत्रे मरकतमयभाजने स्फारा:-विशाला: उदाराः उत्तमाः यवारका:-यवगोधूमादीनां
828282828282828282828282828282828482
॥१७१॥