________________
चतर्थः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
तमसा न समाक्रान्तं, घण्टाकारेन्दुसूर्यवत् । महीयोमहसां गेहं, यन्महेन्द्रविमानवत् ॥ १०५ ॥ किं हेमाचलमारोहा-म्याहोस्विदस्मि रोहणम् । नन्दनं वा वनं यामि, त्रिदिवं वा विशाम्यहम् ॥ १०६ ॥ एवं विकल्पसङ्कल्पकल्पनाऽनल्पतल्पगः । मध्यमध्यास्त सौधस्य, तस्याऽसौ वसुधाधवः ॥ १०७ ॥
'शातकुम्भस्तम्भशोभं' शातकुम्भस्तम्भानां सुवर्णस्तम्भानां शोभा यत्र तत् । 'वर्यवज्राङ्कभित्तिवत्' उत्तमवज्ररत्न(अङ्करत्न)भित्तिसहितम् । 'दिव्योल्लोचं' दिव्यचन्द्रोदयम् । 'देवपुष्पैः' अमरदत्तकुसुमैः । 'कृतपुष्पगृहावलि' कृता पुष्पगृहाणां आवलिः श्रेणि: यस्मिन् तत् ॥ १०४ ॥ 'घण्टाकारेन्दुसूर्यवत्' घण्टाकारौ सूर्यचन्द्रौ यत्र स्त: तत्सहितम् । 'तमसा' अन्धकारेण । 'न समाक्रान्तं' न ग्रस्तम् । 'यद्' गेहम् । 'महेन्द्रविमानवत्' देवराजविमानवत् । 'महीयोमहसां' बृहत्तेजसाम् । 'गेहं' निकेतनम् ।। १०५ ॥ किम् हेमाचलं मेरुम् । आरोहामि ? 'आहोस्वित्' उत । 'रोहणं' रोहणगिरिम् 'अस्मि' आरोहमाणोऽस्मि 'नन्दनं वा वन' देववनं वा । 'यामि' गच्छामि 'त्रिदिवं वा' स्वर्ग वा अहं विशामि ? ॥ १०६ ॥ एवम् । 'विकल्पसङ्कल्पकल्पनाऽनल्पतल्पगः' विकल्पसङ्कल्पानां या कल्पना तद्रूप: अनल्पतल्प:-महाशय्या तस्मिन् गतः । तस्य सौधस्य-प्रासादस्य । 'मध्यं' मध्यभागम् । 'असौ वसुधाधवः' श्रेणिकभूपः । 'अध्यास्त'-आजगाम ॥ १०४ ॥ १०५ ॥ १०६ ॥ १०७ ॥
उत्कण्ठां विस्मयं भ्रान्ति, निश्चयं प्रमदं मदम् । निर्वेदं नृपतिविन्दन्, भावसङ्करमाप सः ॥ १०८ ॥
'उत्कण्ठां' औत्सुक्यम्, अने किम् ? इत्थम्भूतम् । 'विस्मयं' आश्चर्यम्, एवं कदापि न दृष्टम् । 'भ्रान्ति' भ्रमम्, जलं स्थलं वा इदम् ? स्वप्नं सत्यं वा ? 'निश्चयं' निर्णयम्, शालिसौध एवायम् । 'प्रमर्द' हर्षम्, धन्योऽहं यद्राज्ये एवंविधः
satasa8RSR88RSONASRSASASASRSASASNA
॥१७०॥