________________
श्री शालिभद्र
महाकाव्यम्
अङ्गणम् । 'ज्योतिर्मयं प्रकाशमयम् । पक्षे आत्मज्योतिर्मयम् । 'महोदयनिबन्धनं' महाऽभ्युदयकारणम् । पक्षेमोक्षकारणम् । महोदयः सर्वदुःखक्षयो निर्याणमक्षरम् इति हैम्याम् । 'आभाति' शोभते ॥ ९९ ॥ १०० ॥ किमिदं कीदृशं चाग्रे भावीति नृपतेर्मतिः । बाढं मूढा नवोढेव, तत्राभूत् प्रौढनायके ॥ १०१ ॥ इदं किम् ? ‘अग्रे' पुरतश्च । 'कीदृशं' किरूपम् । 'भावि' भविष्यति । इति 'प्रौढनायके'- प्रौढपत्यौ । 'नवोढेव' नव-परिणीतवधूरिव । 'नृपतेः' श्रेणिकस्य । 'मति:' बुद्धिः । 'तत्र' अङ्गणे । 'मूढा' मुग्धा । 'अभूत्' जाता ॥ १०१ ॥ क्वापि खस्फटिकाबद्धमध्यसिद्धजलभ्रमा । परितो नीलरत्नालीकूलकन्दलकालिमा ॥ १०२ ॥
दूरं दूरान्तरस्थाऽपि, जगज्जीवनधर्मतः । यद्भूर्वेदोक्तहिंसेव, विदग्धानपि वञ्चयेत् ॥ १०३ ॥ (युग्मम् ) 'क्वापि' कुत्रचित् स्थाने । 'खस्फटिकाबद्धजलभ्रमा' खस्फटिकैः सूर्यकान्तचन्द्रकान्तमणिभिः, 'सूर्यकान्तचन्द्रकान्तौ द्वौ अपि खस्फटिकाख्यौ' इति हैमीटीकायाम्, आबद्ध मध्यभागे सिद्धजलभ्रमा गङ्गाजलभ्रमा सिद्धो वा जलभ्रमो यत्र सा । 'परितः' नीलरत्नालीकूलकन्दलकालिमा' इन्द्रनील - रत्नश्रेणिमये कूले तीरे कन्दलैः नवप्रवालैः कालिमा-श्यामता यत्र । ‘जगज्जीवनधर्मतः' जगतां जीवनरूपं जलं तद्धर्मतः तत्स्वभावतः । पक्षे अहिंसामूलधर्मतः । 'दूरं दूरान्तरस्थापि' अतिदूराऽपि । 'यद्भूः' या भूमिः । वेदोक्तहिंसा इव । 'विदग्धानपि' पण्डितानपि । वञ्चयेत् । यथा पण्डिताः वेदे हिंसाप्रतिपादनं दृष्टवा हिंसारता: भूत्वा आत्मानं वञ्चयन्ति तथा अजलाऽपि सूर्यकान्तादिमणिभिः सजला सा भूमिः दृश्यते । अतः पण्डिताः अपि तत्र वञ्च्यन्ते इति भावः ॥ १०२ ॥ १०३ ॥
शातकुम्भस्तम्भशोभं, वर्यवज्राङ्कभित्तिवत् । दिव्योल्लोचं देवपुष्पैः, कृतपुष्पगृहावलि ॥ १०४ ॥
KUR
चतुर्थः
प्रक्रमः
।। १६९ ।।