________________
श्री शालिभद्र महाकाव्यम्
हिङ्गुलकिसलया । 'पूर्वाप्राक्पश्चिमाम्भोधिप्रहितप्राभृतप्रभा' पूर्वाप्राक्पश्चिमाम्भोधिषु पूर्वदक्षिणपश्चिमसागरेषु प्रहिता प्रेषिता प्राभृतरूपा उपहाररूपा प्रभा कान्तिः यया सा । त्रिसमुद्रं यावत् प्रभामयी तोरणत्रयी इत्यर्थः ॥ ९४ ॥ ९५ ॥ ९६ ॥ निशि शीतांशुशीतांशुप्रभवामृतपूरितात् । पाञ्चालीकरचन्द्राश्मक रकादाचमन् शुचिः ॥ ९७ ॥ वैडूर्यगोमुखं मुक्तास्वस्तिकं स्फाटिकाङ्गणम् । प्रविवेश विशामीशः कृतकौतुकमङ्गलः ॥ ९८ ॥ 'निशि' रात्रौ । 'शीतांशुशीतांशुप्रभवामृतपूरितात्' चन्द्रशीतकिरणोद्भूतपीयूषपूरितात् । 'पाञ्चालीकरचन्द्राश्मकरकात् ' सालभञ्जीहस्तचन्द्रकांतघटितवार्धान्याः । 'वार्धान्यां तु गलन्त्यालुः कर्करी करकः' इति हैम्याम् । 'आचमन्' पिबन् । अमृतमिति शेषः ॥ ९७ ॥ 'कृतकौतुकमङ्गलः ' कृतं कौतुकमङ्गलं यस्य सः । 'विशामीशः' राजा । 'वैडूर्यगोमुखं' वैडूर्यरत्ननिर्मितं गोमुखं-गोमुखाकृतिः तत्र । 'गोमुखमुपले पनेऽपि स्यात्' इत्यनेकार्थ: । 'मुक्तास्वस्तिकं' मुक्तामयानि स्वस्तिकानि यत्र तत् । 'स्फाटिकाङ्गणं' स्फटिकनिर्मितं अङ्गणं अजिरम् । 'प्रविवेश' प्रविशति स्म ॥ ९८ ॥
पिण्डस्थमिव सौन्दर्य, पदस्थमिव वैभवम् । कौतुकं किल रूपस्थं, रूपातीतं दिवोऽपि हि ॥ ९९ ॥ प्रधानं चतुराधानध्यानसन्धानसाधनम् । ज्योतिर्मयं यदाभाति, महोदयनिबन्धनम् ॥ १०० ॥
कीदृशं तदङ्गणमिति दर्शयन्नाह 'पिण्डस्थमिव' देहस्थमिव । 'सौन्दर्यं' सुन्दरता । 'पदस्थमिव' स्थानस्थितमिव । 'वैभवं' सम्पत्तिः । 'रूपस्थं' मूर्तिमत् । किलः निश्चये । 'कौतुकं' कुतुहलम् । 'दिवोऽपि हि स्वर्गादपि हि । 'रूपातीतं देवलोकरूपातिक्रान्तम् । 'प्रधानं' मुख्यम् । 'तुराधानध्यान-सन्धानसाधनं चतुराणां दक्षाणां
आधानध्यानसन्धाने-अवधानध्यानसन्धाने साधनं कारणम् । ध्यानपक्षे- पिण्डस्थादिचतुष्प्रकारं ध्यानसन्धिहेतुम् । 'यत्'
KER
चतुर्थः
प्रक्रम:
।। १६८ ।।