________________
चतर्थः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'प्राप्तमन्दारमालिकाः' प्राप्ताः मन्दारमाला कल्पवृक्षमालाः याभि: ताः । 'साक्षात्' प्रत्यक्षम् । 'घृताची-मेनकारम्भाः' अप्सरो-विशेषाः । 'तत्र' मार्गे 'स्थिताः इव' अवतीर्णाः इव । 'यन्त्रपुत्रिका:' यन्त्रैः भ्राम्यन्त्यः पुत्रिका: शालभञ्जिकाः । 'रेजिरे' शोभन्ते स्म ॥ ९२ ॥
तयाऽदृशोभयाऽतीत्य, पद्ययेव पुराऽर्णवम् । सौधं पोतमिवायासीत्, हेलया राजकुञ्जरः ॥ ९३ ॥
'तया पद्यया इव' सेतुरूपमार्गेण इव । 'अदृशोभया' आपणभूषया । 'पुरार्णवं' नगर समुद्रम् । 'अतीत्य' उल्लङ्घ्य 'राजकुञ्जरः' नृपश्रेष्ठः श्रेणिकः । पक्षे-गजराजः । 'पोतमिव' प्रवहणमिव । हस्तिपक्षे दशवर्षीयहस्तिनमिव । 'सौधं' प्रासादम्। 'हेलया' लीलया । 'आयासीत्' आगतः ॥ ९३ ॥
पुरतो राजतस्तम्भा, महानीलदलावली । राजावर्तदला शातकुम्भस्तम्भा च दक्षिणात् ॥ ९४ ॥ उत्तरेण मणिस्तम्भा, कुरुविन्दकपल्लवा । पूर्वाप्राक्पश्चिमाम्भोधि-प्रहितप्राभृतप्रभा ॥ ९५ ॥ प्रवेशे ददृशे तस्य भूभृता तोरणत्रयी । तत्त्वत्रयीव भव्येन, जैनधर्मस्य भास्वतः ॥ ९६ ॥
'भव्येन' भव्यजीवेन । 'भास्वतः' सूर्यसमस्य तेजस्विनः' 'जैनधर्मस्य' अर्हद्धर्मस्य । 'तत्त्वत्रयी इव' देवगुरु-धर्मरूपतत्त्वत्रयीव 'तोरणत्रिक' बहिवारत्रिकम् 'बहिरं तु तोरणम्' इति हैम्याम् । 'तस्य' सौधस्य । 'प्रवेशे' : अन्तर्गमने। 'भूभृता' राज्ञा । 'ददृशे' दृश्यते स्म ॥ ९६ ॥ कथम्भूता सा ? 'पुरतः' अग्रतः । 'राजतस्तम्भा' रजतघटितस्तम्भा । 'महानीलदलावली' नीलमणिपर्णश्रेणि: । दक्षिणाच्च । 'राजावर्त्तदला' वैराटरत्नपर्णा । 'शातकुम्भस्तम्भा' सुवर्णस्तम्भा ॥ ९४ ॥ 'उत्तरेण' उत्तरदिग्विभागेन । 'मणिस्तम्भा' रत्नस्तम्भा, 'कुरुविन्दकपल्लवा'
828282828282828282828282828282828482
॥१६७॥