________________
चतुर्थः
प्रक्रमः
शालिभद्र महाकाव्यम्
82828ksa 8282828282828282828282828282
'देवाः सुपर्व' इति हैम्याम् । 'हरिश्चन्द्रपुरीरम्यां' हरिश्चन्द्रनगरीवत् सौभनगरीवत् रम्यां रमणीयाम् । 'हट्टशोभा' आपणभूषाम् । 'अचीकरत्' कारयामास ॥ ८८ ॥
हरिचन्दनकाश्मीरच्छटाच्छोटधरा धरा । पद्मरागशिलाशालिसद्यः पद्योद्यमाऽद्युतत् ॥ ८९ ॥
'पद्मरागशिलाशालिसद्य:पद्योद्यमा' पद्मरागशिलाभिः माणिक्यखण्डै: शालिनी शोभायमाना सद्य: क्षिप्रं च पद्याभिःमार्गः उद्यमा-प्रगुणा । 'पदव्येकपदी पद्या' इति हैम्याम् । 'हरिचन्दनकाश्मीरच्छटाच्छोटधरा' गोशीर्षसृणानां छटा कान्तिः येषां ते आच्छोटाः विपुषः बिन्दवः तान् धारयतीत्येवंशीला । 'धरा' पृथ्वी । 'अद्युतत्' प्रकाशते स्म ॥ ८९ ॥
पारिजातकमन्दारप्रसूनगृहकावली । भातीव दिवमुत्पित्सुर्महीन्दोः कीर्तिमण्डली ।। ९० ॥
'महीन्दोः' मह्यां पृथिव्यां चन्द्रतुल्यस्य शालेः । 'दिवं' गगनं स्वर्ग वा । 'उत्पिसुः' उत्पतनेच्छुका । 'कीर्तिमण्डली इव' यशःपुञ्जः इव । 'पारिजातकमन्दारप्रसूनगृहकावली' पारिजातकमन्दारादिकल्पवृक्षविशेषाणां प्रसूनगृहकावलीपुष्पशालाश्रेणि: 'भाति' शोभते ॥ ९० ॥
देवदूष्यवितानानि, वितीर्णानि विरेजिरे । ऐष्यन्त्याः किल नासीरकेतनानि दिवः श्रियः ॥ ९१ ॥
'ऐष्यन्त्याः' प्राप्स्यमानाया: । 'दिवः' स्वर्गस्य । "श्रियः' लक्ष्म्याः । किल: निश्चये । 'नासीरकेतनानि' सैन्यस्य अग्रयानध्वजाः इव । 'वितीर्णानि' विशालानि । 'देवदृष्यवितानानि' देवदूष्यचन्द्रोदयाः । 'चन्दरवा' इति भाषायाम् । 'विरेजिरे' राजन्ते स्म ॥ ९१ ॥
घृताची-मेनका-रम्भाः, प्राप्तमन्दारमालिकाः । साक्षात् तत्र स्थिता यन्त्र-पुत्रिका इव रेजिरे ॥ ९२ ॥
satasa8RSR88RSONASRSASASASRSASASNA
॥१६६॥