SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ श्री शालिभद्र महाकाव्यम् ERERERE यासां प्रमाणे पुण्यस्य, याति ब्रह्माऽपि जिह्यताम् । तस्य ता गृहिणीत्वेन, प्रमदाः प्रमदास्पदम् ॥ ७८ ॥ 'तस्य' शालिभद्रस्य । 'गृहिणीत्वेन' पत्नीत्वेन । ताः प्रमदाः कान्ताः प्रमदास्पदं' हर्षस्थानम् । 'यासां' शालिपत्नीनाम् । 'पुण्यस्य' सुकृतस्य । 'प्रमाणे' मानकरणे 'ब्रह्माऽपि विधिरपि । 'जिह्यतां' मन्दताम् । 'याति' गच्छति । शालिपत्नीपुण्यप्रमाणकरणे ब्रह्माऽपि मन्दमतिः स्यादित्यर्थः ॥ ७८ ॥ सौराज्यश्रीस्तव न्यायगम्भीरक्षीरनीरधैः । आविष्कृताऽनन्तभोगभाजा श्रीपतिनाऽमुना ॥ ७९ ॥ 'अनन्तभोगभाजा' अगण्यभोगभोगिना । विष्णुपक्षे-शेषाहिशरीरशायिना । विष्णुः किल क्षीरसमुद्रे शेषाहिशरीरोपरि स्वपिति इति पौराणिका: । अनन्तः शेषाहिः । श्रीपतिना' सम्पत्तिपतिना । पक्षे- लक्ष्मीपतिना विष्णुना । 'अमुना' शालिभद्रेण । 'न्यायगम्भीरक्षीरनीरधेः' न्याये न्यायकरणे गम्भीरक्षीरनीरधिः गम्भीरक्षीरसागरः तत्तुल्यस्य । यथा समुद्रः मर्यादां न उल्लङ्घते तथा राजाऽपि न्यायमर्यादां न उल्लङ्घते । 'तव' श्रेणिकस्य । 'सौराज्यश्रीः' शोभनराज्यलक्ष्मीः । 'आविष्कृता' प्रकटिता ॥ ७९ ॥ प्रेमवेमबलेनेति, देवीवाक्चातुरी तुरी । उवाय तद्गुणै राज्ञि, चित्रं पटमिवोज्ज्वलम् ॥ ८० ॥ 'एवं' एवम्भूतया वचनरचनया । 'प्रेमवेमबलेन' प्रीतिवानदण्डशक्तया । (वेम-साळ इति भाषायाम्) 'देवीवाक्चातुरी' चेल्लणावाणीकौशल्यं तद्रूपा । 'तुरी' तन्तुवायसाधनविशेष: । 'तद्गुणैः' शालिभद्रगुणैः । पटपक्षे तन्तुभिः । 'इव' जाने । ‘उज्ज्वलं' अवदातम् । ‘पटं' वस्त्रम् । 'राज्ञि' राजमानसे । 'उवाय' निर्मितवती । इति 'चित्रं' आश्चर्यम् । अयं भावः- तन्तुवायः वेमतुर्यादिना वस्त्रं वयति, किन्तु देव्या श्रेणिकमनसि सूत्ररूपैः शालिगुणवर्णनैः प्रेमबलेन वस्त्रं व्यूतमिति आश्चर्यम् ॥ ८० ॥ 328 चतुर्थः प्रक्रमः ॥ १६३ ॥
SR No.008969
Book TitleShalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherSamkhiyali Jain Sangh Samkhiyali
Publication Year2007
Total Pages624
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, History, & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy