________________
चतुर्थ:
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
मिष्टं वैद्योपदिष्टं च, मन्वान: कौतुकोत्सुकः । भूपादेशात् प्रतीहारः शालिशाला पुनर्ययौ ॥ ८१ ॥
'भूपादेशात्' श्रेणिकाऽऽज्ञात: । 'मिष्टं' मधुरम् । 'वैद्योपदिष्टं' भिषग्दर्शितं । चः समुच्चये । 'मन्वानः' मन्यमानः । 'कौतुकोत्सुकः' कौतुकेन कुतुहलेन उत्सुकः उत्कण्ठितः । 'प्रतीहारः' वेत्री । 'शालिशाला' शालिगृहम् । 'पुनः' भूयः । 'ययौ' गतवान् ॥ ८१ ॥
तेनाऽथ वेत्रिणा नेत्रपात्रीकर्तुं निमन्त्रिते । पुत्रे भूपं सवित्री साऽभ्येत्य सत्यमदोऽवदत् ॥ ८२ ॥
अथ तेन वेत्रिणा-प्रतीहारेण । 'नेत्रपात्रीकर्तुं' नयनगोचरीकर्तुम् । 'पुत्रे' शालिभद्रे निमन्त्रिते । सा सावित्रीमाता भद्रा । 'भूपं' श्रेणिकनुपम् । 'अभ्येत्य' संमुखं आगत्य । 'अदः' इदं अग्रे वक्ष्यमाणम् । 'सत्यं' तथ्यम् । 'अवदत्' भाषितवती ॥ ८२ ॥
दिवो नहि बहिर्मूलवैक्रियं क्रमते वपुः । यथा स्वर्गसदां तीर्थकरकल्याणकेष्वपि ॥ ८३ ॥ यथा वा रथयात्रादौ, प्रासादान्मूलनायकः । यथाऽऽयंदेशान्निति, धर्मः सर्वहितोऽपि न ॥ ८४ ॥ कुमारः सुकुमाराङ्गस्तुङ्गप्रासादश्रृङ्गतः । सनीडेऽपि तथाऽऽक्रीडे, न हि क्रीडति कर्हिचित् ॥ ८५ ॥
यथा 'स्वर्गसदां' देवानाम् । 'मूलवैक्रियं वपुः' जन्मवैक्रियं शरीरम् । तीर्थकरकल्याणकेषु अपि । बहिः । 'न क्रमते' न गच्छति ॥ ८३ ॥ यथा वा रथयात्रादौ । 'प्रासादात्' देवालयात् । 'मूलनायकः' मन्दिरगर्भगृहे मूलनायकत्वेन स्थिता प्रतिमा । न निर्याति । यथा। 'आर्यदेशात्' सार्धपञ्चविंशतिसङ्ख्याकात् । 'सर्वहितोऽपि' सर्वजनीनोऽपि । 'धर्मः' अर्हदुक्तः
82828282828282828282828282828282888
॥१६४॥