________________
चतर्थ:
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
एक आत्महितार्थेऽपि, त्वया नादायि कम्बलः । आमुष्मिकं द्विषां भीष्म ! कदर्येणेव शम्बलम् ॥ ७४ ॥
'द्विषां भीष्म' शत्रूणां भयङ्कर हे भूप ! । 'कदर्येण' कृपणेन । 'आमुष्मिक' पारलौकिकम् । 'शम्बलमिव' पाथेयमिव । शम्बलशब्दः पुंक्लीबलिङ्गः, अत्र प्रथमान्तः कर्मणि प्रयोगे । 'त्वया' राज्ञा । 'आत्महितार्थे' आत्महिताय आत्मीयजनाय । कदर्यपक्षे आत्मनः कल्याणाय । एकोऽपि कम्बल: रत्नकम्बलः । 'न आदायि' न गृहीतः ? यथा कृपणः दानादिना पारलौकिकपाथेयं न गृह्णाति तथा हे राजन् ! त्वया अस्मत्कृते एकोऽपि कम्बलः न गृहीतः इत्यर्थः ॥ ७४ ॥
क्व जन्तुजातजीवातु-र्जीमूतः क्व महाम्बुधिः । क्व वा मलयशैलेशः, क्व च मेरुरगोचरः ॥ ७५ ॥ नर-जन्मावतारः क्व ? क्व वासवपदोदयः ? सहकारतरुः कुत्र ? कुत्र जम्बूः सुदर्शन: ? ॥ ७६ ॥ सर्वाङ्गसुभगाभोगः क्व शालिविभवोद्भवः । क्वाभिमानसुखास्वादः, स्वामिस्ते राज्य-विस्तरः ॥ ७७ ॥
क्व जन्तुजातजीवातुः-प्राणिसमूहजीवनौषधः । 'जीमूतः' मेघ: ? क्व 'महाम्बुधिः' महासागर: ? क्व वा मलयशैलेश:-मलयाद्रिः? क्व च अगोचर:-अस्मादृशाम् अविषय: मेरु: ? || ७५ ॥ क्व नरजन्मावतार:-मानवजन्मप्राप्ति: ? क्व वासव-पदोदयः-इन्द्रपदोदय: ? कुत्र 'सहकारतरुः' आम्रवृक्षः ? कुत्र 'सुदर्शनः जम्बूः' सुदर्शननामा जम्बूवृक्षः? ॥ ७६ ॥ क्व शालिविभवोद्भवः-शालिसमृद्धिजात: सर्वाङ्गसुभगाभोग:-सर्वाङ्गसुभगविस्तर:? 'स्वामिन्' हे नाथ ? क्व च ते अभिमानसुखास्वादः अभिमान: एव सुखास्वादः यत्र स: । राज्यविस्तरः ? यथा मानवलोके मेघमलयमनुष्यसहकारादयः उपयोगिनो भवन्ति न तथा सागरमेरुदेवेन्द्र-जम्बूवृक्षादयः, तथा शालिभोगा: कार्यभाजः, न तव राज्यविस्तरः इति श्रेणिकं प्रति चेल्लणोक्तिः ॥ ७७ ।।
8282828282828282828282828282828888
॥१६२॥