________________
चतुर्थः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'प्रत्यङ्गिादेवीमन्त्रमण्डलोद्धारे मान्त्रिका: मूलमन्त्रपरिवारे कूटाक्षराणि केतकीपत्रैः पूजयन्ति तथा शालिमात्रा भद्रया रत्नकम्बलैः पुत्रवध्वः पूजिताः इति श्रेणिकं प्रति प्रतीहारोक्तिः ॥ ७० ॥
वारयन्तु पुराणास्तु, महाग्राहमिवाग्रहम् । देव्या रङ्गतरङ्गिण्या, आविका नाविका इव ॥ ७१ ॥
'नाविकाः इव' कर्णधाराः इव । 'पुराणाः' चिरन्तना: । 'आविकाः' कम्बला: । 'रङ्गतरङ्गिण्याः' विलासनद्याः। 'देव्याः' चेल्लणाया: । 'महाग्राहमिव' दुष्टजलजन्तुमिव 'आग्रहं' स्त्रीग्रहम् । 'निवारयन्तु' दूरीकुर्वन्तु ॥ अयं भाव:यथा नाविकाः नद्यां ग्राहाभिधजलजन्तुं निवारयन्ति तथा भद्रायाः पुराणाः रत्नकम्बलाः चेल्लणायाः आग्रहं निवारयन्तु । भद्रापार्थात् चेल्लणाकृते पुराणान् रत्नकम्बलान् गृहातु भवानित्यर्थः ॥ ७१ ॥
सार्थवाही सार्थवाही-दृशं सदृशमात्मनः । निर्व्याजं व्याजहारेति, विज्ञप्ता चेल्लणाऽवदत् ॥ ७२ ॥
'सार्थवाही' वणिकपत्नी भद्रा । 'आत्मनः सदृशं' स्वोचितम् । 'इदृशं' एवंरूपम् । 'सार्थवाहि' अर्थसहितं कार्यम् । 'निर्व्याज' निश्छलम् । 'व्याजहार' कथयामास इति राज्ञा 'विज्ञप्ता' ज्ञापिता । चेल्लणा । 'अवदत्' उवाच ।। ७२ ॥
अहं साहित्यविद्येव, श्रृङ्गारहृदयङ्गमा । शिरःशून्यकथारूपैः पुराणैः किं करोमि तैः ॥ ७३ ॥
अहं साहित्यविद्या इव । 'श्रृङ्गारहृदयङ्गमा' श्रृङ्गार: भूषणादिकं हृदयङ्गमा-प्रियः यस्याः सा । साहित्यविद्यापक्षे श्रृङ्गाररसेण हृदयङ्गमा । "तैः शिरःशून्यकथारूपैः' मुख्यभागरहितैः कन्थारूपैः (कन्था-'गोदडी' इति भाषायाम्) पक्षेमस्तकरहिता-तर्कविचारशून्या कथा तद्रूपैः । 'पुराणैः' जीर्णैः । पक्षे-पुराणशास्त्रैः । किं करोमि । यथा साहित्यरसिकाय तर्कशून्यानि पुराणशास्त्राणि नैव रोचन्ते तथा मह्यं कन्थातुल्याः पुराणा: कम्बला: नैव रोचन्ते इति चेल्लणोक्तिः ॥ ७३ ।।
8282828282828282828282828282828282
॥१६१॥