________________
चतर्थः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
स कीदृगस्यास्तनयः, किंरूपास्तस्य ताः प्रियाः । इत्यसौ विस्मितोऽभ्येत्य, वेत्री राज्ञे व्यजिज्ञपत् ।। ६७॥
'अस्याः' भद्रायाः । 'स: तनयः' शालिभद्रः कीदृग् ? तस्य ता: प्रियाः किंरूपा:-कीदृश्य: ? इति विचारणात् 'विस्मितः' आश्चर्यमग्नः । 'वेत्री' प्रतीहार: ‘अभ्येत्य' आगत्य । 'राज्ञे' श्रेणिकाय । 'व्यजिज्ञपत्' ज्ञापितवान् ॥ ६७ ॥
हेलायां वणिजस्तस्य, वेलायामिव वारिधेः । निमज्जति महेन्द्रोऽपि, के स्वल्पे भूभृतः परे ॥ ६८॥
'वारिधेः' समुद्रस्य । 'वेलायामिव' समुद्रजलविकारे इव । 'तस्य वणिजः' व्यवहारिण:' 'हेलायां' विलासे । 'महेन्द्रोऽपि' सुरेन्द्रोऽपि समुद्रपक्षे-महेन्द्रपर्वतोऽपि । 'निमज्जति' ब्रडति । तर्हि । 'स्वल्पे' अत्यन्तक्षद्राः । 'नेमाऽर्ध'
२४|१०|| इत्यनेन प्रथमाबहुवचने अल्पे अल्पाः वा । 'परे' अन्ये । 'भूभतः' राजानः पक्षे-गिरयः । 'के' कियन्मात्राः? ते तु सुतरां निमज्जन्ति एव ॥ ६८ ॥
यतः श्रीशालिभद्रस्य, जननी मन्त्रवित्तमा । प्रत्यङ्गिरामहामन्त्रमण्डलोद्धारकर्मणि ॥ ६९ ॥ मूलमन्त्रपरीवारे, स्नुषाः कूटाक्षरप्रभाः । औरभ्रकेतकी पत्रशकलैः समभावयत् ॥ ७० ॥
'यतः' यस्मात् । 'प्रत्यङ्गिरामहामन्त्रमण्डलोद्धारकर्मणि' 'प्रत्यङ्गिरा' मन्त्रमहोदधिशास्त्रोक्ता तन्नाम्नी देवी तस्याः मन्त्रमण्डलस्य उद्धारकर्मणि । 'मन्त्रवित्तमा' मन्त्रवित्सु मुख्या । 'श्रीशालिभद्रस्य जननी' भद्रा माता ॥ ६९ ॥
'मूलमन्त्रपरीवारे' मूलमन्त्रस्य परीवारे । 'कूटाक्षरप्रभाः' कूटाक्षरवत् प्रभाः यासां ताः । 'स्नुषाः' पुत्रवधूः । 'औरभ्रकेतकीपत्रशकलैः' कम्बलरूपैः केतकीपर्णखण्डै । 'समभावयत्' अपूजयत् । अयं भावः-यथा
8282828282828282828282828282828888
॥१६०॥