________________
चतुर्थः
प्रक्रमः
शालिभद्र महाकाव्यम्
82828ksa 8282828282828282828282828282
('फानस' इति भाषायाम्) 'अभ्रपुटानिव' अभ्रकपुटानिव, प्रदीपगृहे काचस्थाने तदा अभ्रकाणां प्रयोगः सम्भाव्यते । 'सार्जवा' आर्जवसहिता सरला अहम् । 'वधूकार्याय' पुत्रवध्वर्थम् । 'अभैत्सं' पाटितवती ॥ ६३ ॥
प्रत्यक्षो देव एवास्ते, सूनुर्मे तस्य वल्लभाः । द्वात्रिंशत् सह्यशय्यास्था, नव्याः काव्यस्तुतिप्रभाः ॥ ६४ ॥
मम सूनुः-पुत्रः शालिभद्रः । प्रत्यक्षः साक्षात् देवः एव आस्ते-वर्तते । तस्य नव्या:-नवीना काव्यस्तुतिप्रभाः' काव्यैः स्तुति प्रशस्तिः प्रभा कान्तिश्च यासां ताः । 'सह्यशय्यास्था:' सह्यो महेन्द्रपर्वतः तद्वत् उच्चा शय्या-शयनीयं तस्यां स्थिताः । अथवा सॉ आरोग्यं तद्पा शय्या तस्यां स्थिताः । 'सह्याऽऽरोग्ये' इति हैम्याम् । द्वात्रिंशद् वल्लभा:-प्रियाः सन्ति ।। ६४ ॥
तासां श्रृङ्गारसाराणां, सुकुमारपदस्थितौ । मया न्यस्ता विभागेनाऽलङ्कारा इव कम्बलाः ॥ ६५ ॥
'श्रृङ्गारसाराणां' शोभासाराणाम् । काव्यस्तुतिपक्षे-श्रृङ्गाररसप्रधानानाम् । 'तासां' वल्लभानाम् । पक्षे-काव्यस्तुतीनाम् । 'सुकुमारपदस्थितौ' सुकोमलचरणस्थाने पक्षे सुकुमाराणां पदानां, स्त्याद्यन्तं पदं तेषां स्थितौ-स्थाने । मया । 'अलङ्काराः इव' भूषणानीव । पक्षे-श्लेषाद्याः काव्यशास्त्रोक्ताः अलङ्कारा इव । 'कम्बलाः' रत्नकम्बलाः । 'विभागेन' पाटनाद् विभागकरणेन । पक्षे-श्लेषादिविभागेन । 'न्यस्ताः' स्थापिताः ॥ ६५ ॥
परं परः शताः सन्ति, चिरत्ना रत्नकम्बलाः । कार्यक्षमाः क्षमाभर्तुर्यदि ते तन्निवेद्यताम् ।। ६६ ॥
'परं' परन्तु । 'चिरत्नाः' चिरन्तनाः । रत्नकम्बला: । 'पर:शताः' शताधिकाः । पर: शतादि ।३।११७५।। इत्यनेन निपात: । 'सन्ति' मत्पावें वर्तन्ते । यदि । 'ते' कम्बला: । 'क्षमाभर्तुः' राज्ञः श्रेणिकस्य । 'कार्यक्षमाः' कार्ये समर्थाः। 'तत्' तर्हि । 'निवेद्यतां' ज्ञाप्यताम् ॥ ६६ ॥
satasa8RSR88RSONASRSASASASRSASASNA
॥१५९॥