________________
चतर्थः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
यथामूल्यममूल्योऽपि, रत्नवद् रत्नकम्बलः । दीयतां दयितो देव्या, ग्रहशान्तिविधौ बलिः ॥ ६० ॥
'ग्रहशान्तिविधौ' शन्यादिग्रहाणां शान्तेः विधौ-अनुष्ठाने । 'बलिः इव' उपहारः इव । 'उपहारबली समौ' इति हैम्याम् । देवीपक्षे-ग्रहः रत्नकम्बलग्रहणे ग्रहः आग्रहः तस्य शान्तौ । 'देव्याः' चेल्लणायाः । 'दयितः' प्रियः । रत्नवत् अमूल्योऽपि रत्नकम्बलः । 'यथामूल्यं' मूल्यमनतिक्रम्य । 'दीयता' समर्प्यताम् ॥ ६० ॥
पद्मासन्नप्रसन्नास्यमुद्रा भद्रा जगाद तम् । मूल्यं हृत्प्रातिकूल्यं च, स्वाम्यादेशे न शस्यते ॥ ६१ ॥
'पद्मासन्नप्रसन्नास्यमुद्रा' पद्मे-कमले आसन्ना-उपविष्टा लक्ष्मीरित्यर्थः, लक्ष्मीवत् प्रसन्ना विषादरहिता आस्यमुद्रा मुखमुद्रा यस्याः सा । भद्रा' शालिमाता । 'तं' प्रतीहारम् । 'जगाद' उवाच । 'स्वाम्यादेशे' राजाज्ञायाम् । 'मूल्यं' वस्नम् । 'हृत्प्रतिकूल्यं' हृदः चेतसः प्रातिकूल्यं वैपरीत्यम् । चः समुच्चये । 'न शस्यते' न युज्यते, न चिन्त्यते इत्यर्थः ॥ ६१ ॥
किन्तु मन्दतरायातस्त्वं प्राप्ताऽसि न हि प्रियम् । वाहावृषभवद्देवस्वर्णपट्टमिव स्फुटम् ॥ ६२ ॥
किन्तु वाहावृषभवत्-शकटवृषभवत् 'देवस्वर्णपट्टमिव' देवस्य सुवर्णपट्टमिव । देयस्वर्णपट्टमित्यपि पाठः । शकटवृषभाः देवपढें स्वर्णपढें नैव प्राप्नुवन्ति तद्वत् । 'मन्दतरायातः' विलम्बेन आगतः । त्वम् । 'प्रियं' इष्टरत्नकम्बलम् । 'नहि प्राप्ताऽसि' नैव लब्धाऽसि ॥ ६२ ॥
यतस्तानागतानैवौरभ्रानभ्रपुटानिव । दीपालयकृतेऽभैत्सं, वधूकार्याय सार्जवा ॥ ६३ ॥ 'यतः' यस्मात् । 'आगतानेव' आयातानेव । 'तान् औरभ्रान्' ऊर्णायून् रत्नकम्बलान् । 'दीपालयकृते' प्रदीपगृहार्थम् ।
828282828282828282828282828282828282
॥१५८॥