________________
श्री
शालिभद्र
महाकाव्यम्
FRERER
ज्ञात: । 'साम्प्रतमेव' अधुनैव । ' तदिच्छुः ' कम्बलग्रहणेच्छुः । अहं पुनः । 'स्त्रीजित:' महिलापराभूतः, 'व्यञ्जित' प्रकाशितः ॥ ५६ ॥
तथापि श्रीमहादेव्याः, कर्ताऽस्मि मनसः प्रियम् । यदेकस्तम्भसंस्त्यायश्रद्धाऽपूरि पुरा मया ॥ ५७ ॥ तथापि । 'श्रीमहादेव्याः' श्रीचेल्लणायाः । मनसः प्रियम् । 'कर्ताऽस्मि' करिष्यामि । 'यत्' यत: । 'पुरापि' पूर्वमपि । मया । 'एकस्तम्भसंस्त्यायश्रद्धा' एकस्तम्भधवलप्रासादाभिलाषः । 'पस्त्यं संस्त्याय आश्रयः' इति हैम्याम् । 'अपूरि' पूरितः ॥ ५७ ॥
विमृश्येति प्रतीहारं, प्रैषीद् भद्रां प्रति प्रभुः । कम्बलाय जलायाब्धितटीमब्दमिवाशुगः ॥ ५८ ॥
' इति विमृश्य' इत्थं विचिन्त्य । 'प्रभुः' श्रेणिकः । 'आशुगः' वायुः । 'पवनाशुगौ' इति हैम्याम् । 'जलाय' सलिलाय । 'अब्धितीं' समुद्रतटम् । 'अब्दमिव' मेघमिव । 'प्रतीहारं' वेत्रिणम् । 'कम्बलाय' रत्नकम्बलाऽऽनयनार्थम् । भद्रां प्रति प्राहिणोत् । अयं भावः यथा वायुः जलदान् जलार्थं जलधि प्रति गमयति तथा श्रेणिकः कम्बलार्थं प्रतीहारं भद्रां प्रति अजीगमत् ॥ ५८ ॥
तत्रैत्र्य वेत्री श्रीशालि सावित्रीमित्यभाषत । आदेशो वासवस्येवा देशं दत्ते नृपः शुभे ! ॥ ५९ ॥ 'तत्र' भद्रागृहे । 'एत्य' आगत्य । 'वेत्री' प्रतीहारः । 'श्रीशालिसावित्रीं' श्रीशालिभद्रमातरम् । 'इति' एवम्भूतम्, 'अभाषत' उक्तवान् । 'शुभे' हे कल्याणि । 'वासवस्य' इन्द्रस्य । 'आदेश: इव' आज्ञा इव । 'नृपः' श्रेणिकभूपः । 'आदेशं दत्ते' आज्ञां करोति ॥ ५९ ॥
1825
चतुर्थः
प्रक्रमः
।। १५७ ।।