________________
चतर्थ:
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
तैरूचेऽनादृतान् राज्ञा, कमलानीव कम्बलान् । स्वीचक्रे हेलया शालिमाता हेलिप्रभेव तान् ॥ ५३॥
'तैः' वणिग्भिः । 'ऊचे' कथितम् । 'राज्ञा' नृपेण । पक्षे-चन्द्रेण । 'राजा निशारत्नकरौ च चन्द्रः' इति हैम्याम् । 'अनादृतान्' अस्वीकृतान् । कमलानीव' पद्मानि इव । कम्बलान्' रत्नकम्बलान् । 'हेलिप्रभा इव' सूर्यप्रभा इव । 'द्वादशात्मा च हेलिः' इति हैम्याम् । 'शालिमाता' भद्रा । 'तान्' रत्नकम्बलान् । 'स्वीचक्रे' गृहीतवती । राज्ञा (चन्द्रेण) अनादृताः कमलतुल्या: रत्नकम्बला: सूर्यप्रभातुल्यया भद्रया गृहीताः । विकसन्ति हि कमलानि सूर्यप्रभया इति भावः ॥ ५३ ॥
तेनाऽभ्येत्य नृपायैवं, स्वरूपेऽथ निरूपिते । विस्मित: सस्मितश्चेति, भूपतिः पर्यभावयत् ॥ ५४ ॥
अथ । तेन' नरेण । 'अभ्येत्य' समागत्य । 'नृपाय' राज्ञे । एवं स्वरूपे' इतिवृत्तान्ते । 'निरूपिते' ज्ञापिते । 'विस्मितः' आश्चर्यान्वितः । सस्मितश्च' स्मितसहितश्च । भूपतिः' राजा । 'इति' अग्रे वक्ष्यमाणम् । 'पर्यभावयत्' विचारयति स्म ॥ ५४॥
स्नुहिर्महातरुर्वह्निव॒हद्भानुर्यथोच्यते । सारतेजोवियोगेऽपि, नरदेवास्तथा वयम् ॥ ५५ ॥
यथा। 'स्नुहिः' वज्रवृक्षः ('थोर' इति भाषायाम्) 'स्नुहिर्वज्रो महातरुः' इति हैम्याम् । 'महातरुः' इति नाम्ना । 'उच्यते' कथ्यते । यथा। 'वह्निः' अग्निः । बृहद्भानुः' इति नाम्ना। 'वह्निव॒हद्भानुः' इति हैम्याम् । उच्यते । तथा 'सारतेजोवियोगेऽपि' सारतेजसः प्रतापस्य वियोगेऽपि विरहेऽपि वयं नरदेवाः इति अभिधानधारिणः एव, न परमार्थतः ॥ ५५ ॥
पूर्वमेताननादित्सुः, कृपणः कलितो जनैः । अहं साम्प्रतमेवेच्छुळञ्जितः स्त्रीजितः पुनः ॥ ५६ ॥ 'पूर्व' प्रथमम् । 'एतान्' रत्नकम्बलान् । 'अनादित्सुः' अग्रहणेच्छुः । अहम् । जनैः कृपणः-कदर्यः । 'कलितः'
ARRARAUAYA8A82828282828282888
॥१५६॥