________________
चतुर्थः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
महीं चारयता युक्त्या, विचार्य किमु कारणम् । त्वया दण्डभृताऽग्राहि, न महीपाल ! कम्बलः ॥ ४९ ॥
'महीपाल' हे भूपाल ! पक्षे-गोपाल ! (मही-धेनु) । 'युक्त्या' युक्तिपूर्वकम् । 'महीं' पृथ्वीम् । गोपालपक्षे-गाम् । 'चारयता' शासता पालयता । पक्षे-चारयता । 'दण्डभृता' करग्राहिणा । पक्षे दण्डधरेण गोपालेन । त्वया । 'कम्बलः' रत्नकम्बलः। पक्षे-ऊर्णायुः । 'किमु कारणम्' कं हेतुम् । विचार्य चिन्तयित्वा 'न अग्राहि' न गृहीतः ? ॥ ४९ ॥
श्रीनिकाय्य ! प्रणाय्योऽपि, कम्बलः प्राज्यपाज्यभूः । प्रसह्य मह्यमानाय्य, सप्रदर्पं समर्प्यताम् ॥ ५० ॥
'श्रीनिकाय्य' हे लक्ष्मीमन्दिर ! 'निकाय्यो भवनं कुट' इति हैम्याम् । 'प्राज्यपाज्यभूः' बहुमानस्थानभूतम् । 'प्रणाय्योऽपि' असम्मतोऽपि । 'प्रणाय्योऽसम्मतः' इति हैम्याम् । 'कम्बलः' रत्नकम्बलः । 'प्रसह्य' बलात् । 'मां' मदर्थम् । 'सप्रदर्प' साहङ्कारम् । 'आनाय्य' ग्राहयित्वा । 'समगुंतां' दीयताम् ॥ ५० ॥
अथ लक्षव्यये बद्धलक्षः क्षोणिपतिः क्रमात् । भेदकं प्राञ्जलं तत्र, प्रेषीत् पुरुषमाशुगम् ॥ ५१ ॥
अथ लक्षव्यये-शतसहस्रस्वर्णव्ययकरणे । 'बद्धलक्षः' दत्तचेताः । 'क्षोणिपतिः' पृथ्वीशः श्रेणिकः । 'क्षणात्' तूर्णम् । तत्र' रत्नकम्बलव्यहारिपार्श्वे । 'भेदकं' वाणिज्यकारके भेदोत्पादकम् । 'प्राञ्जलं' बाह्याचारेण ऋजुम् । 'आशुगं' शीघ्रगामिनम्। पुरुषं प्रेषीत्-प्राहिणोत् ॥ ५१ ॥
तेनादिश्यन्त वणिजः प्रयत्नाद् रत्नकम्बलान् । मन्त्रानिव सुदुर्लम्भान्, राजा प्रत्युत याचते ॥ ५२ ॥
'तेन' पुरुषेण । 'प्रयत्नात्' प्रयासात् । 'वणिजः' व्यवहारिणः । 'आदिश्यन्ता' आदिष्टाः । मन्त्रानिव सुदुर्लम्भान्सुदुष्प्रापान् रत्नकम्बलान् । राजा प्रत्युत याचते-ग्रहीतुमिच्छति ॥ ५२ ॥
ARRARAUAYA8A82828282828282888
॥१५५ ॥