________________
चतुर्थः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
च मान्यता ययोः ते । 'के अपि' श्वश्रूवध्वौ । 'दृष्टी इव' नयने इव । 'सखीसौख्येन' सखीवत् वयस्यावत् सौख्येन सुखेन। 'अवतिष्ठते' वसतः ॥ ४५ ॥
योगक्षेमक्षमे मूल-स्नपनप्रतिमे इव । जननीनन्दिनीप्रीत्या, व्याप्रियेते च केचन ॥ ४६ ॥
'मूलस्नपनप्रतिमे इव' मूलनायकस्नपनप्रतिमे इव । मन्दिरगर्भगृहस्थिता मूलनायकप्रतिमा । या लध्वी प्रतिमा स्नात्रार्थं बहिरपि आनीयते सा स्नपनप्रतिमा । 'योगक्षेमक्षमे' अप्राप्तस्य प्रापणं योगः, प्राप्तस्य रक्षणं क्षेमं तत्र क्षमे-समर्थे । 'केचन' श्वश्रू-वध्वौ । 'जननी-नन्दिनीप्रीत्या' अम्बापुत्रीप्रीत्या । 'व्याप्रियेते' प्रवृत्तिं कुरुतः ॥ ४६ ॥
भद्रायास्तु स्नुषा एव, पुत्रात् पुत्र्याश्च वल्लभाः । जीवितव्याच्च लक्ष्म्याश्च, सत्याः शीलकला इव ॥ ४७॥
'सत्याः' सतीस्त्रियाः । 'शीलकलाः इव' शीलपालनप्रयत्नाः इव । भद्रायास्तु । 'पुत्रात्' सूनोः । 'पुत्र्याः' तनयायाः । 'जीवितव्यात्' जीवनात् । 'लक्ष्याश्च' सम्पत्तेश्च । 'स्नुषाः एव' पुत्रवध्वः एव । 'वल्लभाः' प्रियाः । अभूवन् ॥ ४७ ॥
रत्नकम्बलस्य कृते चेल्लणायाः आग्रह:इतश्च चेल्लणादेवी, दासीविज्ञप्तिकावशात् । रत्नकम्बलवृत्तान्तं, श्रुत्वा राज्ञे व्यजिज्ञपत् ॥ ४८ ॥
'इतश्च' श्रेणिकराजभवने च । 'दासीविज्ञप्तिकावशात्' चेटीज्ञापनकारणात् । 'चेल्लणादेवी' श्रेणिकमहिषी । 'रत्नकम्बलवृत्तान्तं' नेपालदेशतः रत्नकम्बलविक्रेतारः राजमन्दिरे आयाताः राज्ञा च एकोऽपि रत्नकम्बलो न गृहीतः इत्येवं वृत्तान्तम् । 'श्रुत्वा' आकर्ण्य । 'राज्ञे' श्रेणिकाय । 'व्यजिज्ञपत्' ज्ञापितवती ॥ ४८ ॥
828282828282828282828282828282828282
॥ १५४॥