________________
चतर्थ:
प्रक्रमः
शालिभद्र महाकाव्यम्
SASASASA 8282828282828282828282828282
'गृहिणी' पत्नी । 'परस्परं' मिथः । 'प्रीतिशीते' प्रीत्या प्रेम्णा शीते शीतले कलहाभावात् । [अव?] तिष्ठते' वसतः । तस्य धर्मसिद्धिः-सुकृतसिद्धिः। प्रसिद्धिश्च' कीर्तिश्च । 'सिद्धिसमृद्धिदे' मुक्तिभुक्तिप्रदे भवतः । 'सिद्धेः समृद्धिदे' इत्यपि पाठः । 'कविता च' काव्यं च । 'सुगीतिश्च' सङ्गीतं च । तस्य । 'अभ्यासवशंवदे' अभ्यासाधीने । तस्य 'दिव्यमन्त्रमयी' उत्कृष्टमन्त्रपूर्णा । 'सिद्धिः' प्राप्तिः । 'बुद्धिश्च' मतिश्च । 'निश्चिते' निर्णीते । तस्य 'सीमासु' अङ्गने इत्यर्थः । 'जाह्नवीयमुने' गङ्गायमुने । 'खेलतः' क्रीडतः । इत्यहं मन्ये-चिन्तयामि । दुष्करदुष्करा खलु जनी-जननी प्रीतिः ॥ ४० ॥ ४१ ॥ ४२ ॥
श्वश्रूवध्वौ वातपित्त-प्रकृती इव के अपि । परस्परविरोधिन्यौ, सपत्नीभावमापतुः ॥ ४३ ॥
'वातपित्तप्रकृती इव' वायुमायुस्वभावौ इव । 'पित्तं मायुः' इति हैम्याम् । 'परस्परविरोधिन्यौ' मिथः प्रतिकूले। 'के अपि' श्वश्रू-वध्वौ-जनीजनन्यौ । 'सपत्नीभावं' शत्रु-भावम् । 'आपतुः' प्राप्नुत: स्म ॥ ४३ ॥
धूर्तमैत्र्याऽथ केचिच्च, स्वार्थसार्थसमर्थने । बिभ्रतो निभृतं मन्त्रि-पारिग्रहिकविग्रहम् ॥ ४४ ॥
अथ केचिच्च-के अपि च श्वश्रूवध्वौ । 'स्वार्थसार्थसमर्थने' निजप्रयोजनसमूहसमर्थने । समर्थनैरित्यपि पाठः 'धूर्तमैत्र्या' कपटसुहत्तया । 'मन्त्रिपारिग्रहिकविग्रहं' मन्त्रिकोशाध्यक्षयोः इव, 'निभृतं' मौनपूर्वकम्, 'विग्रहं' युद्धम् । बिभ्रतः धारयत: । अयं भाव:-यथा मन्त्री कोषाध्यक्षात् द्रव्यमिच्छति, कोशाध्यक्षश्च मन्त्रिसकाशात् अधिकारमिच्छति, एवं द्वावपि अन्तर्दृषिणौ बाह्याचारेण मैत्री धारयत: । तथा के अपि श्वश्रु-वध्वावपि ।। ४४ ॥
एकस्वभावसुभगे, समप्राधान्यमान्यते । दृष्टी इवावतिष्ठते, सखीसौख्येन के अपि ॥ ४५ ॥ 'एकस्वभावसुभगे' एक स्वभावात्व समप्रकृतेः सुभगे प्रिये । 'समप्राधान्यमान्यते' समं प्राधान्यं-सत्ता समा
satasa8RSR88RSONASRSASASASRSASASNA
॥ १५३॥