________________
चतर्थः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'जिनधर्माऽनभिज्ञा इव' जैनशासनाऽज्ञा इव । 'काचित्' श्वश्रू । 'अप्रौढां' अपक्वाम् । 'आम्लिकामिव' चिञ्चामिव। 'अप्रौढा' लध्वीम् । वधू पुत्रवधूम् । 'आद्रियते' सन्मानयति । 'महतीं' प्रौढां वधू पुनः । 'विद्वेष्टि' विद्वेषं करोति ॥ ३७ ॥
वधूं बालामबालां च, काचित्तु बहु मन्यते । श्वश्रूः सर्वास्ववस्थासु चूतस्येव फलावलीम् ॥ ३८ ॥
'काचित्' श्वश्रूः । 'चूतस्य' सहकारस्य । 'फलावलीमिव' फलश्रेणिमिव । 'सर्वासु' समस्तासु । 'अवस्थासु' दशासु । 'बाला' लध्वीम् । 'अबालां' प्रौढाम् । वधूं बहु मन्यते-अति सन्मानयति ॥ ३८ ॥
सुकलत्रस्य सम्पत्तिः, पुंसां भाग्यनिबन्धनात् । या प्रीतिः जननीजन्योः, सा सौभाग्यस्य मञ्जरी ॥ ३९ ॥
'भाग्यनिबन्धनात्' पुण्यवशात् । 'पुंसां' नराणाम् । 'सुकलत्रस्य' सुभार्यायाः । 'सम्पत्तिः सम्प्राप्तिः भवति । तत्प्राप्तावपि। 'जननीजन्योः' अम्बावध्वोः । या प्रीतिः प्रेम । सा तु सौभाग्यस्य-पुण्योदयस्य । 'मञ्जरी' वल्लरिः । 'मञ्जा मञ्जरि वल्लरिश्च सा' इति हैम्याम् । विरलविरलैव दृश्यते विश्वे श्वश्रूः-वधू-प्रीतिः । ॥ ३९ ॥
धर्मसिद्धिः प्रसिद्धिश्च, तस्य सिद्धिसमृद्धिदे । कविता च सुगीतिश्च, तस्याभ्यासवशंवदे ॥ ४० ॥ दिव्यमन्त्रमयी सिद्धिः, तस्य बुद्धिश्च निश्चिते । जाह्नवी-यमुने मन्ये, तस्य सीमासु खेलतः ॥ ४१॥ लोकद्वयहिता माता, गृहिणी च मनोमता । यस्य गेहे च [ ऽव ?] तिष्ठते, प्रीतिशीते परस्परम् ॥ ४२ ॥(विशेषकम् ) यस्य गेहे मन्दिरे। लोकद्वयहिता' इहलोकपरलोक-कल्याणी । 'माता' जननी । 'मनोमता' चेतोऽभीष्टा । चः समुच्चये ।
828282828282828282828282828282828482
॥ १५२॥