________________
चतर्थ:
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'क्षमाभृतां' क्षमाश्रमणानां मुनीनाम् । 'स्कन्धारूढाः' अंसाधिरूढाः । 'इमे' रत्नकम्बलाः । 'कामस्य' स्मरस्य । 'विलोमाः' प्रतिकूलाः । भवन्ति हि मुनयः स्मरविजेतारः । 'तेन' तस्मात् कारणात् । 'कामिन्यः' शालिस्त्रियः । रत्नकम्बलान् । 'भूपीठे' पृथ्वीतले । 'अलोठयन्' अवगुण्डयन्ति स्म ॥ ३४ ॥
जनी-जनाय सा स्थूल-लक्षा लक्षं व्ययेऽक्षिपत् । आददे स्वेन वात्सल्ये, कोटि श्वश्रूषु विश्रुताम् ॥ ३५ ॥ |
'स्थूललक्षा' उदारा । 'स्थूललक्षो बहुप्रदः' इति हैम्याम् । 'सा' भद्रा 'जनीजनाय' पुत्रवधूजनार्थम् । 'सूनोः स्नुषा जनी वधूः' इति हैम्याम् । 'व्यये' व्ययकरणे । 'लक्षं' शतसहस्रम् स्वर्णमुद्राणाम् । 'अक्षिपत्' अस्यति स्म । 'स्वेन' आत्मना । 'वात्सल्ये' वत्सलभावे । 'श्वश्रूष' पतिमातृषु । 'विश्रुतां' विख्याताम् । 'कोटिं' उत्तमकक्षाम् । 'आददे' जग्राह। भद्रया लक्षदानेन कोटिः गृहीता इत्यर्थः ॥ ३५ ॥
प्रायः प्रावृट् चिरण्टीवानागतेष्टाऽऽगतां पुनः । प्रजेव शपति श्वश्रूयूँनां मात्राधिकां च ताम् ॥ ३६॥
'प्रायः' बहुधा । 'चरण्टी' पुत्रवधूः । 'प्रावृडिव' वर्षा इव । 'अनागता' आगमनात् पूर्वम् । 'इष्टा' प्रिया भवति । 'आगतां' गृहायातां वधूम् । पुनः । श्वश्रूः' पतिमाता । 'प्रजा इव' जनता इव । 'न्यूनां' हीनाम् । 'मात्राधिका' मात्रया अधिकाम् । चः समुच्चये । 'तां' पुत्रवधू वर्षां च । 'शपति' आकोशति । यथा हीनां वर्षां जनः शपति तथा अधिकामपि शपति । एवं पुत्रवधूमपि गुणहीनां गुणाधिका वा श्वश्रूः शपति एव ॥ ३६ ॥
वधूमाद्रियते काचि-दप्रौढामाम्लिकामिव । जिनधर्माऽनभिज्ञेव, विद्वेष्टि महतीं पुनः ॥ ३७ ॥
828282828282828282828282828282828282
॥१५१॥