________________
चतर्थ:
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
'अष्टौ तान्' रत्नकम्बलान् । 'क्रीत्वा' मूल्येन आदाय । 'दानवीरस्य' शालेः । 'प्रियाणां' कान्तानाम् । 'क्रमसंमार्जनानि' पादसंमार्जनरूपाणि । 'अधात्' कृतवती ॥ ३० ॥
किल केवलसुस्पर्शाः, पञ्चाङ्गविषयोत्तरः । शालेरधः कृता युक्तं, स्त्रीरत्नैः रत्नकम्बलाः ॥ ३१॥
'शालेः' शालिभद्रस्य । 'पञ्चाङ्गविषयोत्तरैः' पञ्चाङ्गेषु पञ्चप्रकारेषु विषयेषु रूपादिषु उत्तरैः उत्तमैः । 'स्त्रीरत्नैः' शालिप्रियाभिः । किलः निश्चये। केवलसुस्पर्शाः' केवलः सुस्पर्शः एव येषां ते । रत्नकम्बलाः । अधःकृता पादसम्मार्जनरूपाः कृताः । 'युक्तं' तद् युक्तमेव । अयं भाव:-ते रत्नकम्बला: किल एकसुस्पर्शगुणाः एव, शालिभद्रप्रियास्तु मनोहररूप-शब्दगन्धादिमत्यः । अत: रत्नकम्बलेभ्य: ता: उत्तमाः । एवं शालिप्रियाभिः ते अधःकृता तद् युक्तमेव ॥ ३१ ॥
पूर्णमूर्णायुवर्गेण, शीतभीतातिरक्षणैः । कृत्वा च धौतिकारूपं, देवार्चासु यदर्जितम् ॥ ३२ ॥ तेनागण्येन पुण्येन, स्वजातौ प्राप्य रत्नताम् । कम्बलाः शालिकान्तानामंहिसेवामिवासदन् ॥३३॥(युग्मम् )
'ऊर्णायुवर्गेण' कम्बलवर्गेण । 'शीतभीतातिरक्षणैः' शीतपीडितजनपीडारक्षणैः । 'देवार्चासु' देवपूजासु । 'पूर्ण' सम्पूर्णतया । 'धौतिकारूपं अधोवस्त्ररूपम । 'कृत्वा' विधाय । 'यत्' पुण्यम् । 'अर्जितं' प्राप्तम् ॥ ३२ ॥ तेन अगण्येन अमितेन । 'पुण्येन' सुकृतेन । 'स्वजाती' कम्बलजातौ । 'शालिकान्तानां' शालिपत्नीनाम् । 'अंहिसेवामिव' पादपर्युपासनामिव । 'कम्बलाः' रत्नकम्बला: । 'आसदन्' प्राप्ताः ॥ ३३ ॥
इमे विलोमा: कामस्य, स्कन्धारूढाः क्षमाभृताम् । भूपीठेऽलोढयंस्तेन, कामिन्यो रत्नकम्बलान् ॥ ३४ ॥
ARRARAUAYA8A82828282828282888
॥१५०॥