________________
चतुर्थः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282882 8282828282828282828282828282
'निजगोरसैः' निजवचनरसैः । धेनुपक्षे दध्यादिभिः । वणिजाम् । 'तापं' चिन्तातापम् । 'निर्व्याज' निष्कपटम् । 'निर्वापयामास' शान्ति नयति स्म ॥ २६ ॥
रत्नकम्बलसम्पत्ति-प्रश्ने प्रस्ताविते तया । तेऽचीकथन्नथ पृथु, पृथिवीनाथसङ्कथाम् ॥ २७ ॥
'तया' भद्रया । 'रत्नकम्बलसम्पत्तिप्रश्ने' रत्नकम्बलमूल्यप्रश्ने । 'प्रस्ताविते' उपक्रान्ते आरब्धे सति । 'पृथु' विशालाम् । स्वरादुतो गुणादखरोः ।।४।३५।। इत्यनेन स्त्रीलिङ्गे पृथ्वीवत् 'पृथः' अपि । 'ते' वणिजः । 'पृथिवीनाथसथां' श्रेणिकनृपवृत्तान्तम् । 'अचीकथन्' कथयन्ति स्म ॥ २७ ॥
भद्राऽऽह मम हे भद्राः ! मनसो रत्नकम्बलैः । भवेद् द्वात्रिंशता तृप्ति-नरस्य कवलैरिव ॥ २८ ॥
'भद्रा' सार्थवाही । 'आह' वदति । 'भद्राः' हे महाशयाः । 'नरस्य' पुरुषस्य । द्वात्रिंशता कवलैरिव ग्रासैरिव । द्वात्रिंशता रत्नकम्बलैः । मम मनसः तप्तिः शान्तिः भवेत् ॥ २८ ।।
अष्टौ स्थानानि वर्णाना-मिवाष्टौ मङ्गलानि च । अस्माकमासते रत्न-कम्बलानीति तेऽभ्यधुः ॥ २९ ॥
'वर्णानां' अक्षराणाम् । 'अष्टौ स्थानानीव' शिरःकण्ठादीनि अष्टौ उच्चारस्थानानि इव । अष्टौ मङ्गलानि इव भद्रासनादीनि इव । अस्माकं समीपे । अष्टौ रत्नकम्बलानि । आसते-सन्ति । इति ते वणिजः । 'अभ्यधुः' ऊचुः ॥ २९ ।।
वीरक्रयेण च क्रीत्वा, तानष्टौ वीरसूरसौ । प्रियाणां दानवीरस्य, क्रमसंमार्जनान्यधात् ॥ ३० ॥ 'असौ वीरसूः' वीरमाता भद्रा । 'वीरमाता च वीरसूः' इति हैम्याम् । 'वीरक्रयेण' वरनरो यथा क्रीणाति तथा।
828282828282828282828282828282828482
॥१४९॥