________________
श्री शालिभद्र
महाकाव्यम्
GRERER
'तूर्णं' क्षिप्रम् । 'ऊर्णायुवर्णिकां' रत्नकम्लबम् । 'निर्वर्ण्य' विलोक्य । 'नयार्णवः' नीतिनीरधिः । 'नृपः ' श्रेणिकः। ‘आह' वदति । 'दक्षा:' हे चतुराः । एतेषु' रत्नकम्बलेषु । काऽपि परीक्षाऽपि । 'साक्षात् ' प्रत्यक्षम् । 'निरीक्ष्यते' दृश्यते ? ॥ १५ ॥
तेऽप्यूचुर्माघयामिन्यां घृतकुम्भो विलीयते । अमुनाऽऽलिङ्गितो लौहः, स्त्रीरत्नेनेव पुत्रकः ॥ १६ ॥ 'स्त्रीरत्नेन' चक्रिणः प्रधानराज्ञ्या 'आलिङ्गितः आश्लिष्टः । 'लौह:' लोहमयः । पुत्रकः इव । 'अमुना' रत्नकम्बलेन। आलिङ्गित: । 'घृककुम्भः' सर्पिर्घटः । 'माघयामिन्यां' माघनिशायाम् । 'विलीयते' द्रवति । इति वणिजोऽपि । 'ऊचुः' वदन्ति स्म ॥ १६ ॥
स्त्यायत्याज्यघटो भीष्मे, ग्रीष्मे मध्यन्दिनातपे । अमुष्माद् युक्तिविन्यस्तात्, सिद्धकल्काद् यथा रसः ॥ १७ ॥ 'युक्तिविन्यस्तात्' युक्तिपूर्वकं स्थापितात् । 'अमुष्मात्' रत्नकम्बलात् । 'भीष्मे ग्रीष्मे' भीषणे उष्णका । 'मध्यन्दिनातपे' मध्याह्नप्रकाशे । 'आज्यघट:' घृतकुम्भः । 'स्त्यायति' स्त्यानीभवति । यथा सिद्धकल्कात् रसः स्त्यायति । 'कल्कोऽघविष्टयो: दम्भे पापिनि किट्टे च' इत्यनेकार्थः ॥ १७ ॥
ऊर्णेयं पुण्यपूर्णानां भोगाऽऽभोगाय जायते । भ्रूमध्यावर्तमध्यस्थमूर्णारोमेव लक्षणम् ॥ १८ ॥ 'भ्रूमध्यावर्तमध्यस्थं' भ्रुवोः मध्ये आवर्तः तन्मध्ये स्थितम् । 'ऊर्णारोम' ऊर्णावत् रोमाणि यस्मिन् तत् । लक्षणमिव । इयं ऊर्णा - रत्नकम्बलः । 'पुण्यपूर्णानां सुकृतशालिनाम् जनानाम् । 'भोगाभोगाय' विलासविस्ताराय । 'जायते' भवति ॥ १८ ॥
चतुर्थः
प्रक्रम:
।। १४६ ॥