________________
चतुर्थ:
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
वयं ततः समायाता, रत्नकम्बलशम्बलाः । तत्त्वां मिलन्तु रत्नानि, नयरत्नाकरं प्रभो ! ॥ ११ ॥
'ततः' नेपालात् । 'रत्नकम्बलशम्बलाः' रत्नकम्बलपाथेयाः रत्नकम्बलसहिताः इत्यर्थः । वयं समायाता:-समागताः । 'ततः' तस्मात् । 'विभो' हे स्वामिन् ! । 'प्रभो' इत्यपि पाठः । 'नयरत्नाकर' नयसागरम् । त्वाम् । 'रत्नानि' रत्नकम्बलानि । मिलन्तु । 'सङ्गच्छन्तु' इति पाठान्तरम् ॥ ११ ॥
हेमन्ते ये धृतोष्माणः, सम्पाते विपदामिव । भीष्मग्रीष्मे सुशीताश्च, सम्पदामिव सङ्गमे ॥ १२ ॥ शिरीषसुकुमाराश्च, निर्विकाराश्च सर्वदा । अत्यन्तविपुलाश्चित्त-चारा इव महात्मनाम् ॥ १३ ॥
महामूल्यांस्ततो रत्न-कम्बलान् भूधनाय ते । अदीदृशन् प्रबुद्धाय, स्वग्रन्थान् कवयो यथा ॥१४॥(विशेषकम्) ___ 'विपदां' दुःखानाम् । 'सम्पाते इव' समागमे इव । 'हेमन्ते' शीतकालसमये । 'ये' रत्नकम्बलाः । 'धतोष्माणः' कृतधर्माः । 'सम्पदां' सुखानाम् । 'सङ्गमे इव' मीलने इव । 'भीष्मग्रीष्मे' भीष्मे भयङ्करे ग्रीष्मे-उष्णकालसमये । 'सुशीताः' अतिशीतलाः ॥ १२ ॥ 'महात्मनां' महानुभावानाम् । 'चित्तचाराः इव' मनोविचाराः इव । 'अत्यन्तविपुलाः' अत्युदारा: । 'शिरीषसुकुमाराः' शिरीषपुष्पवत् सुकुमारा: सुकोमला: । 'सर्वदा' नित्यम् । 'निर्विकारां' विकृति न गच्छन्तीत्येवंशीला: सन्ति । च: सर्वत्र समुच्चये ॥ १३ ॥ 'ततः' तत्पश्चात् । 'ते' वणिजः । 'महामूल्यान्' महाान् । रत्नकम्बलान् । 'भूधनाय' राज्ञे । 'भूधवाय' इत्यपि पाठः । 'अदीदृशन्' दर्शयन्ति स्म । यथा कवयः-काव्यरचयितारः । 'स्वग्रन्थान्' स्वरचितकाव्यशास्त्राणि । 'प्रबुद्धाय' विदुषे दर्शयन्ति ॥ १४ ॥
ऊर्णायुवर्णिकां तूर्णं, निर्वाऽऽह नयार्णवः । दक्षाः ! साक्षात् परीक्षाऽपि, काऽप्येतेषु निरीक्ष्यते ॥ १५ ॥
satasa8RSR88RSONASRSASASASRSASASNA
॥१४५ ॥