________________
चतर्थ:
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
कुतस्त्या:-कुतः कुतः आगताः कुत्र निवासिनः इत्यर्थः । 'अनायत्ताः' केषामपि नैवाधीनाः अर्थात् स्वायत्ताः । 'समायाताऽकाणक्रीतक्रयाणकाः' समायातं अकाणकीतं दानचौर्यरहितक्रीतं कयाणकं पण्यं येषां ते वणिजः ॥ ७ ॥
तेऽप्यूचुर्व्यवहारेण, हारेणैव महाशयाः । प्रसाधयन्ति कमला, विमलां व्यवसायिनः ॥ ८ ॥
'तेऽपि' वणिजोऽपि । 'महाशयाः' महानुभावाः । 'हारेणैव' मनोहरेण एव । 'व्यवहारेण' वर्तनेन 'उचुः' भाषितवन्तः । 'यतः' यस्मात् । 'व्यवसायिनः' व्यवहारिणः । 'हारेणैव' हारिणा प्रियेण एव । 'व्यवहारेण' व्यापारेण । 'विमलां' विशुद्धां नीतियुतामित्यर्थः । 'कमला' लक्ष्मीम् । प्रसाधयन्ति उपार्जयन्ति ॥ ८ ॥
सम्राट् देशेषु भूपाल ! नेपालो यत्र भूभुजाम् । शिरःसु बलधूलीव, गन्धधूल्यधिरोहति ॥ ९ ॥
'भूपाल' हे राजन् ! देशेषु सम्राट-मुख्य: नेपाल: देशः अस्ति । 'यत्र' नेपाले । 'भूभुजां' पर्वतानाम् । पक्षेराज्ञाम् । 'शिरःसु' शिखरेषु । नृपपक्षे मस्तकेषु । 'बलधूलीव' सैन्यरेणुरिव । 'गन्धधली' कस्तुरी । 'अधिरोहति' आरोहति अयं भावः-यथा भूपमस्तकेषु सैन्यरेणुः पतति तथा नेपालदेशस्थितपर्वतशिखरेषु कस्तूरी अधिरोहति । कस्तूरीमृगाणां तत्राऽवस्थानात् ॥ ९ ॥
यस्य स्फारैः स्फुरद्रत्नकम्बलैश्च बलैरिव । आकम्पः सप्रतापानां, भूपानामपि जायते ॥ १० ॥
यस्य च । 'बलैरिव' सैन्यैरिव । 'स्फारैः' विशालैः । 'स्फुरद्रत्नकम्बलैः' देदीप्यमानैः रत्नकम्बलैः । 'सप्रतापानां' प्रभाव-सहितानाम् । 'भूपानामपि' राज्ञामपि । 'आकम्प:' शिरोधूननरूपः । सैन्यपक्षे-भयजन्य: आकम्पः । 'जायते' भवति ॥ १०॥
ARRARAUAYA8A82828282828282888
॥१४४॥