________________
चतुर्थः
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
तदा च सर्वदेशेभ्यो, रत्नान्यखिलवस्तुषु । ऐयरुर्नररत्नाना-मकुण्ठोत्कण्ठया किल ॥ ४ ॥
तदा च । 'अखिलवस्तुषु' समस्तपदार्थेषु । 'रत्नानि' मुख्यानि वस्तूनि । 'नररत्नानां' नरपुङ्गवानाम् । 'अकुण्ठोत्कण्ठया' अरुद्धोत्कण्ठया । 'किलः' निश्चये । 'सर्वदेशेभ्यः' नेपालादिसमस्तदेशेभ्यः । 'ऐयरुः' आगच्छन्ति स्म ॥ ४ ॥
देशान्तरादथाजग्मुस्तत्र वाणिज्यकारकाः । सुकुले पुण्यपण्याढ्या, जीवा इव भवान्तरात् ॥ ५ ॥
'भवान्तरात्' अन्यभवात् । 'सुकुले' शोभने कुले । 'पुण्यपण्याढ्यः' पुण्यमेव पण्यं तैः आढ्याः । जीवाः इव । 'पुण्यपण्याढ्यः' पुण्यं पवित्रं पण्यं तैः आढ्याः । 'वाणिज्य-कारकाः' वणिजः । अथ तत्र 'देशान्तरात्' अन्यदेशात् । 'आजग्मुः आगच्छन्ति स्म ॥ ५ ॥
नेपालस्य वणिजां श्रेणिकस्य पार्वे समागनम्लोभाद् दुर्लभलाभस्य, विघ्नराजमिवाथ ते । श्रीश्रेणिकमहाराजं, प्रागेवाययुरुत्सुकाः ॥ ६ ॥
अथ 'दुर्लभलाभस्य'-महालाभस्य । 'लोभात्' आशया 'विघ्नराजमिव' गणपतिमिव । श्रीश्रेणिकमहाराजम् । 'प्रागेव' प्रथममेव । 'उत्सुकाः' आतुराः । 'ते' वणिजः । 'आययुः' आजग्मुः ॥ ६ ॥
भूपतिः प्राह तान् भद्राः ! यूयं कौतस्कुता इह । अनायत्ताः समायाताकाणक्रीतक्रयाणकाः ॥ ७ ॥ 'भूपतिः' श्रेणिकनृपः । 'तान्' वणिजः । 'प्राह' वदति । 'भद्राः' भो महानुभावाः । यूयम् । 'कौतस्कुताः'
828282828282828282828282828282828282
॥१४३॥