________________
चतुर्थः
|॥ अथ चतुर्थः प्रक्रमः॥
प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
अथ श्रीशालिभोगानां, राजवैद्यविचारतः । रसवीर्यविपाकश्री-निष्प्रपञ्चं प्रपञ्च्यते ॥ १ ॥
अथ 'श्रीशालिभोगानां' श्रीशालिभद्र-भोगसुखानाम् । शालिधान्यपक्षे-कलमौदनभोजनानाम् । 'राजवैद्यविचारतः' वैद्यराजस्य विचारत: वैद्यराजस्य विचारतः चिन्तनेन । 'रस-वीर्य-विपाकश्रीः' शालिभद्र-भोगानां रस-वीर्य-विपाकाः तेषां श्री: शोभा । अनासक्तियोगात् शालिभोगानां रस-वीर्य-विपाका: शुभा एव । पक्षे ओदनानां रस-वीर्य-विपाकश्री: । निष्प्रपञ्चं निश्छलम् । 'प्रपञ्च्यते' विस्तारतः कथ्यते ॥ १ ॥
तदा तदेव भूपीठे, राजते राजतेजसा । नगरं नग-रङ्कत्व-दायि देवगृहोन्नतेः ॥ २ ॥
'तदा' तस्मिन् काले । 'देवगृहोन्नतेः' देवालयोच्चत्वात् । 'नग-रत्वदायि' नगानां पर्वतानां रङ्कत्वदातृ हीनतादायि । 'तदेव' राजगृहमेव नगरम् । 'भूपीठे' पृथ्वीतले । 'राजतेजसा' राजतुल्येन उत्कृष्टेन तेजसा । 'राजते' शोभते ॥ २ ॥
त्रिवर्गवर्गणाप्राय-नरवर्गस्य यस्य च । श्रीवीरः प्रददौ मर्त्य-भवस्येवाग्रभूमिताम् ॥ ३ ॥
'मर्त्यभवस्य इव' मनुष्यावतारस्य इव । 'त्रिवर्गवर्गणाप्रायनरवर्गस्य' धर्मार्थकामलक्षण त्रिवर्गोपार्जनाप्रायो नरवर्गो यत्र तस्य नगरस्य । 'यस्य' राजगृहस्य । 'अग्रभूमितां' मुख्यताम् विहारादिद्वारा । 'श्रीवीरः' चरमोऽर्हन् । प्रददौ । अयं भाव:-यथा चतुर्गतिषु मनुष्यगतिः प्रधाना तथा सर्वनगरेषु राजगृहनगरस्य प्रधानतां श्रीवीर: प्रददौ । श्रूयते च श्रीवीरेण राजगृहनगरस्य नालन्दपाटके चतुर्दश चतुर्मासाः कृताः ॥ ३ ॥
satasa8RSR88RSONASRSASASASRSASASNA
॥१४२॥