________________
श्री
शालिभद्र महाकाव्यम्
FRERERE
तोयान्तः प्रतिबिम्बितेन्दुतरलं, सौख्यं हि मानुष्यकं, हल्लेखैः कलुषं च लेखसुखमप्यालेख्यसख्योन्मुखम् । चिन्तासन्ततितन्तुजालकलना-तीतं नितान्तं निरा-तङ्कं सत्यतया विशालममलं, श्रीशालिहेलासुखम् ॥ १५६ ।। ( शार्दूल ) 'मानुष्यकं' मनुष्याणामिदम् । 'सौख्यं' सुखम् । हिः निश्चये । 'तोयान्तः प्रतिबिम्बितेन्दुतरलं' जलान्तः प्रतिबिम्बितचन्द्रवत् तरलं चपलम् अस्ति । 'लेखसुखमपि' देवसुखमपि । 'आलेखसख्योन्मुखं' चित्रमैत्रीसन्मुखम् । अर्थात् चित्रवत् दर्शनेनैव रमणीयं न तु वस्तुत: । चित्राङ्किताः मोदका यथा दर्शनेनैव रमणीयाः न तु तृप्तिकारकाः, तथा देवसुखमपि । 'लेखैः' अरतिभिः । 'कलुषं' मलिनं च देवसुखम् । 'श्रीशालिहेलासुखं' श्रीशालिभद्रविलाससुखं तु । 'चिन्तासन्ततितन्तुजालकलनाऽतीतं' चिन्ता परम्परातन्तुजालघटनाभ्य: । 'अतीतं' अतिक्रान्तम् । 'नितान्तं' अत्यन्तम् । 'निरातङ्कं' आतङ्करहितम् । 'सत्यतया' सत्यरूपेण 'विशालं' विपुलम् । 'अमलं' मलरहितं च ॥ १५६ ॥
श्री शालिचरिते धर्म-कुमार सुधिया कृते । श्रीप्रद्युम्नधिया शुद्धे, तृतीयः प्रक्रमोऽभवत् ।। १५७ ॥
इति कच्छ्वागडदेशोद्धारक तपागच्छाचार्य-विजय- कनकसूरि-प्रशिष्याचार्य विजय - कलापूर्ण सूरि-शिष्य-मुनिश्री कलाप्रभविजयजी ( आ. कलाप्रभसूरि ) शिष्य- मुनिश्री ( पंन्यासश्री )- मुक्तिचन्द्र विजयजी - शिष्य मुनिश्री (पंन्यासश्री) मुनिचन्द्रविजय विरचितायां श्रीशालिभद्रमहाकाव्यस्य सानुवादटीकायां तृतीयः प्रक्रमोऽभवत् ।
इति श्रीशालिभद्रचरिते गोभद्रागमन - ऋतुषट्क-वर्णनो नाम तृतीयः प्रक्रमः ।
328
SAAYAS
तृतीय:
प्रक्रमः
।। १४१ ।।