________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
8282882 8282828282828282828282828282
सौगत-नैयायिक-साङ्ख्य-वैशेषिक-चार्वाकशास्त्ररूपा: षट् तर्काः इव । 'प्रबलाग्नेः' प्रबलो जठराग्निः यस्य तस्य । 'रसाः इव' मधुराऽऽम्ल-लवण-कटु-तिक्त-कषायाः षड् रसाः इव ॥ १५३ ।। 'लग्नस्य' कुण्डलिकाप्रथमस्थानस्य । 'गृहाद्याः इव' गृह-होरा-द्रेष्काण-नवांश-द्वादशांश-त्रिंशांशाः इव । 'महामुनेः' मुनिसत्तमस्य । 'व्रतानि इव' रात्रिभोजन सहितानि षड् व्रतानि इव । 'पुण्याढ्यस्य' पुण्यशालिनः । 'अस्य' शालिभद्रस्य । 'सर्वे ऋतवः' षड् ऋतवः । 'सुखावहाः' सुखकारिण: । 'अभूवन्' जाताः ॥ १५४ ॥
रत्नालोककले विमान-विमले, प्रासाद-श्रृङ्गाङ्गणे, प्रत्यक्षामरसुन्दरीभिरभितः, कान्ताभिरभ्यन्वितः । रम्भाऽऽरम्भितनाटकैः प्रकटितं, श्रीवासवाध्यासितं, सान्द्रानन्दमन्दिताद्भुततमं श्रीशालिदेवः सदा ॥ १५५ ॥
(शार्दूल) 'रत्नालोककले' रत्नालोकै:-रत्नप्रकाशैः कले-मनोहरे, रत्नप्रकाशानां वा कला यस्मिन् । 'विमानविमले' विमानवत् देवविमानवद् विमले उज्ज्वले । 'प्रासादश्रृंगाङ्गणे' सौध-चन्द्रशालाऽजिरे। 'प्रत्यक्षामरसुन्दरीभिः' साक्षात् देवाङ्गनाभिः । 'कान्ताभिः' प्रियाभिः । 'अभितः' परित: । 'अभ्यन्वितः' युक्तः । 'श्रीशालिदेवः' देवरूप: श्रीशालिभद्रः । 'सदा' नित्यम् । 'रम्भाऽऽरम्भितनाटकैः' रम्भात् संरम्भात् आरम्भितैः प्रवर्तितैः नाटकैः । देवपक्षे-रम्भा-तन्नाम्नी देवी तया आरम्भितनाटकैः । 'प्रकटितं' आविष्कृतम् । 'श्रीवासवाध्यासितं' श्रीवासवैः-लक्ष्मीन्द्रैः लक्ष्मीपतिभिः श्रेष्ठिभिः अध्यासितंअधिष्ठितम् । पक्षे-श्रीवासवैः श्रीदेवेन्द्रैः अध्यासितम् । 'अद्भुततमं' अत्यद्भुतम् । 'सान्द्रानन्दं' सान्द्रं गाढं आनन्दम् । 'अविन्दत' प्राप || १५५ ॥
satasa8RSR88RSONASRSASASASRSANASNA
॥१४०॥