________________
तृतीयः प्रक्रमः
शालिभद्र महाकाव्यम्
8282828282828282828282828282828282
अयं माघविचारेऽपि, कथं जाड्येन ताड्यते । विबुधोऽन्ते गुरुर्यस्य, दुःसाधार्थप्रसाधकः ॥ १५१ ॥
'अयं' शालिभद्रः । 'माघविचारेऽपि' माघमासप्रचारेऽपि । काव्यपक्षे-माघकाव्य विचारणायामपि । माघकवेः काव्यानि श्रेष्ठानि गण्यन्ते । यदुक्तम्-उपमा कालिदासस्य, भारवेरर्थगौरवम् । दण्डिनः पदलालित्यं, माघे सन्ति त्रयो गुणाः ॥ १॥ कथम् । 'जाड्येन' शैत्येन । पक्षे मूर्खतया । 'ताड्यते' बाध्यते पक्षे-ग्रस्यते । यस्य । 'अन्ते' अन्तिके पार्वे । 'दुःसाधार्थप्रसाधकः' दुःशककार्यविधायकः । पक्षे दुर्जेयपदार्थ-प्रबोधकः । 'विबुधः' देवः । पक्षे-पण्डितः । 'गुरुः' पिता । पक्षे-अध्यापकः । अस्ति ॥ १५१ ॥
शिशिरः किं करोत्वस्य, द्वात्रिंशद् यस्य वल्लभाः । हसन्त्यः सन्ति जाज्वल्य-माना वसुभरोद्धराः ॥ १५२ ॥
'यस्य' शालिभद्रस्य । 'जाज्वल्यमानाः' देदीप्यमानाः । अङ्गारशकटीपक्षे-दन्दह्यमानाः । 'वसुभरोद्धराः' धनसमूहोत्कटा: आभूषणधारिण्यः इत्यर्थः । पक्षे अग्निभरोत्कटाः । 'अनिलसख-वसू' इति हैम्याम् । 'हसन्त्यः' हसनशीलाः । पक्षे-अङ्गारशकट्यः । 'सगडी' इति भाषायाम् । द्वात्रिंशत् । 'वल्लभाः' प्रियाः । सन्ति । 'अस्य' शालेः । शिशिरः । किं करोतु ॥ १५२ ॥
गुणा इव महीशस्य, भाषाभेदाः कवेरिव । वादीन्द्रस्येव षट् तर्काः, प्रबलाग्ने रसा इव ॥ १५३ ॥ गृहाद्या इव लग्नस्य, व्रतानीव महामुनेः । सर्वेऽस्य ऋतवोऽभूवन्, पुण्याढ्यस्य सुखावहाः ॥ १५४ ॥
'महीशस्य' राज्ञः । 'गुणाः इव' सन्धि-विग्रह-यानाऽऽसन-द्वैधाश्रया- षड् गुणा: इव । कवेः 'भाषाभेदाः इव' संस्कृत-प्राकृत-मागधी-शौरसेनी-पैशाच्यपभ्रंशलक्षणा षड् भाषाभेदाः इव । 'वादीन्द्रस्य' वादिवरस्य । 'तर्काः इव' आहेत
satasa8RSR88RSONASRSASASASRSANASNA
॥१३९॥