________________
श्री
शालिभद्र
महाकाव्यम्
FRERERE
विषीदत्यथ पुष्पौधे, चिरं मरुबके यथा । रुचिर्मरुबके चारु, विचचार विचारिणाम् ॥ १४८ ॥ अथ यथा । 'मरुबके' मरो: मरुदेशस्य बक: बलाकः तस्मिन् मरुबकतुल्ये । मारुदेशे बकः सीदति तद्वत् । 'पुष्पौधे' कुसुमसमूहे । चिरं विषीदति विषादं गच्छति सति । 'विचारिणां' विचारशीलानां विहारशीलानां वा जनानाम् । 'रुचिः' अभिलाषः । 'मरुबके' तन्नामके वृक्षविशेषे । 'चारु' सुन्दरतया । 'विचचार' प्रससार । शिशिरसमये अन्यपुष्पसमूहाः म्लानिं यान्ति । मरुबकवृक्षस्तु विकसति । ततः विचारिणां तस्मिन् रुचिः योग्यैव ॥ १४८ ॥
राशेर्घनप्रसूनानां मथने शिशिरे किल । सुमनःसु श्रियं प्राप, कुन्द एव मुकुन्दवत् ॥ १४९ ॥
‘घनप्रसूनानां' बहुपुष्पाणाम् । 'राशेः' समूहस्य । विष्णुपक्षे - घनप्रसूनानां मेघोत्पन्नानां जलानां राशेः जलराशेः समुद्रस्य इत्यर्थ: । ‘मथने' विनाशके । पक्षे विलोडने । किलः निश्चये। 'शिशिरे' ऋतौ । 'कुन्दः' पुष्पविशेष: । 'एवः' अवधारणे । ‘मुकुन्दवत्' विष्णुवत् । ‘सुमनःसु' पुष्पेषु । पक्षे-देवेषु । 'श्रियं' शोभाम् । पक्षे-लक्ष्मीम् । 'प्राप' प्राप्तः । शिशिरे अन्यपुष्पाणां विनाशेऽपि कुन्दपुष्पं शोभां लभते । विष्णुपक्षे समुद्रमथने किल सर्वदेवेषु विष्णुना एव लक्ष्मीः प्राप्ता ॥ १४९ ॥
शिवप्रियाद्दमनका - दवाप शिशिरः श्रियम् । दमयन्तीं सुतां भीम-भूपो वाचंयमादिव ।। १५० ।
'शिवप्रियात्' शिवः शङ्करः प्रियः यस्य तस्मात् । 'दमनकात्' तन्नामा मुनिः तस्मात् । 'वाचंयमात् ' मुनेः । 'भीमभूप:' दमयन्तीपिता भीमराजा । 'सुतां दमयन्तीं' पुत्रीं दमयन्तीम् । 'अवाप' लब्धवान् । तद्वत् । 'शिवप्रियात्' शिवस्य प्रियः शिवप्रियः तस्मात् । 'दमनकात्' तन्नाम्नः पुष्पात् । (डमरो इति भाषायाम्) 'शिशिरः' ऋतु। 'श्रियं' शोभाम् । 'अवाप' प्राप्तः ॥ १५० ॥
FRERERE
तृतीय:
प्रक्रमः
।। १३८ ।।