________________
श्री
शालिभद्र महाकाव्यम्
FRERER
'शालिलीलाविलोकनात्' शालिभद्रक्रीडादर्शनात् । 'सज्जनानां' सताम् । 'मनांसीव' चेतांसि इव । 'शरदागमात् ' शरदृतुसमागमनात् । पयांसि' जलानि । 'परं' उत्तमम् । 'प्रसादं' निर्मलताम् । 'आसेदुः ' प्राप्तानि ॥ १४४ ॥ हेमन्तवर्णनम्
हेमन्ते हिमसम्पातै जिह्मश्री रविरप्यभूत् । नाप क्वापि पुनर्मान्द्यं, श्रीशालेर्भाग्यभास्करः ॥ १४५ ॥ 'हेमन्ते' हेमन्तत । 'हिमसम्पातैः' तुहिनसम्पातैः । 'रविरपि' सूर्योऽपि । 'जिह्मश्रीः ' भङ्गरशोभः । अभूत् । न पुनः श्रीशाले: । 'भाग्यभास्करः ' भाग्यरवि: । 'क्वापि कुत्रापि स्थाने समये वा 'मान्द्यं' मन्दताम् । 'आप' प्राप्तः ॥ १४५ ॥
तदीयकान्तकान्तासु, सुरङ्गसरसीष्विव । कुङ्कुमस्तबका रेजू, रक्तप्रालेयपिण्डवत् ॥ १४६ ॥
'सुरङ्गसरसीषु इव' सुरङ्गाः सुन्दरश्रियः सरस्यः जलाशयाः तासु इव । तदीयकान्तकान्तासु' शालिभद्रसुन्दरसुन्दरीषु । 'कुङ्कुमस्तबका: ' घुसृणगुच्छा कुङ्कुमगुच्छा वा । 'रक्तप्रालेयपिण्डवत्' लोहिततुहिनपिण्डवत् । 'रेजुः ' शुशोभिरे ॥ १४६ ॥ शिशिरवर्णनम्
ततः प्रववृते प्राज्य- शिशिरः शिशिरः शनैः । कमलानां शिरः शूलं, सौख्यमूलं विलासिनाम् ॥ १४७ ॥
'ततः' हेमन्तानन्तरम् । 'शनैः' मन्दं मन्दम् । 'प्राज्यशिशिरः: ' प्राज्य: पुष्कलः शिशिरः तुषार: यस्मिन् सः । 'शिशिरः' ऋतुः प्रववृते' प्रारब्धवान् । स च कीदृश: ? 'कमलानां पद्मानां के शरीरे मलः येषां ते कमला:दरिद्राः तेषाम् । 'शिरःशूलं' मस्तकशूलं दुःखरूपमित्यर्थः । भवन्ति हि शिशिरे कमलानि म्लानानि दरिद्राश्च वस्त्रहीनत्वात् शीतर्त्ता: । 'विलासिनां' भोगिनाम् । 'सौख्यमूलं' सुखकारणम् बहुभोजनादिभोगार्हत्वात् शिशिरस्य ॥ १४७ ॥
KER
तृतीय:
प्रक्रमः
॥ १३७ ॥